This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
इत्थंच
 
अनयोरुभयोः अन्तः निर्णयः तत्त्वदर्शिभिः दृष्टइति कथयता ।

इत्थंच
इयं माया सत् सद्वस्त्वपि न, असद्वस्त्वपि न उभयात्मिका सदसदात्मिका

नो । अपितु सत्वासत्वाभ्यां निर्वस्तुमशक्यत्वात् अनिर्वचनीयरूपा । यथा

सत्वेन वा असत्वेन वा निर्वस्तुमशक्या एवं ब्रह्मणो भिन्नत्वेन अभिन्नत्वेन च

अनिर्वचनीयेत्याह । ब्रह्मणोत्यंतभिन्नत्वे अद्वैतबोधक-श्रुतिविरोधात्
। एवमभिन्नत्वे तस्याः
 

लोकेपि शक्तेः शक्तिमतोत्यंत-भेदाभावाच्च
 
। एवमभिन्नत्वे तस्याः
बाधायोगात् ब्रह्मणः कालत्रयाबाध्यत्वात् । भिन्नाभिन्नत्वे विरुद्धे अतः

भिन्नापि न अभिन्नापि न उभयात्मिकापि नो भवतीत्यर्थः । एवं अनादित्वेन

सांगा सावयवा न भवति सावयवत्वे जन्यत्वापत्तेः । निरवयवत्वे परिणामा-

संभवात् तदपि वक्तुमशक्यम् । अतः अनंगा अनवयवापि न । उभया-

त्मिकापि नो सावयवत्व-निरवयवत्वयोः एकत्र विरोधादेव । अतः

सत्वासत्वाभ्यां भिन्नत्वाभिन्नत्वाभ्यां सांगत्वानंगत्वाभ्यां निर्वस्तुमशक्यं

रूपं यस्याः सा अनिर्वचनीयरूपा महाद्भुता अत्यंताश्चर्यरूपा ॥१११॥

 
अस्याः
अत्यंतनिवृत्तिहेतु- सत्वाच्च नासत्वमित्याह । शुद्धाद्धयेति ।

 
शुद्धाद्वय-ब्रह्मविबोधनाश्या
 
अस्याः
 

सर्पभ्रमो रज्जुविवेकतो यथा ।

रजस्तमस्सत्वमिति प्रसिद्धा
 

गुणास्तदीयाः प्रथितैः स्वकार्यैः ॥ ११२॥
 
7
 

 
शुद्धं निर्गुणं अद्वयं सजातीय-विजातीय-स्वगतभेदशून्यं यद्ब्रह्म तस्य

विबोध: अभेदेन साक्षात्कारः तेन नाश्या तज्जन्यध्वंस -प्रतियोगिनी ।

तत्र दृष्टान्तमाह सर्पभ्रमः रज्वां जातः अयं सर्प इति भ्रमः, रज्जुविवेकतो

यथा कल्पित-सर्पाधिष्ठानभूतरज्जुसाक्षात्कारेणेव नायं सर्प : किंतु रज्जु -

रित्याकारेण । तेन निर्गुणे अद्वितीये कल्पितायाः मायायाः अधिष्ठानतत्व-

साक्षात्कारबाध्यत्वमुक्तम् । यदुक्तं पूर्वं कार्यानुमेया सुधियैव मायेति

तद्विशदयति तद्धर्म-गुणकार्य प्रतिपादनमुखेन रजइत्यादिना । तदीयाः

तस्याः इमे तदीयाः मायासंबंधिनः गुणा धर्मा: रजः तमः सत्वमिति

प्रसिद्धाः। तेषामप्रत्यक्षत्वात् कार्यमुखेन प्रसिद्धिमाह प्रथितैरिति ।

प्रसिद्धैः तत्तद्गुणकार्योः वक्ष्यमाणैः ॥ ११२ ॥
 
७३
 
F