This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
,
 
66
 
अन्यथान्यथा जगदुत्पत्ति तर्कयन्ति तदसंगतमिति सूचयति सुधियेति ।

सुष्ठुता च धियि श्रुत्यनुसारित्वं तत्सूचितं परमेशशक्तिपदेन । तेन

सांख्यैरुच्यमानं जडं स्वतन्त्रं प्रधानं सत्यं जगन्मूलमित्यादिक-मपास्तम्

वेदितव्यम्। अत्र श्रुतिरप्यस्ति "मायां तु प्रकृतिं विद्यान्मायिनं तु

महेश्वरम् " "जीवेशावाभासेन करोति माया ऽविद्या च स्वयमेव

भवति " " इन्द्रो मायाभिः पुरुरूप ईयते" इत्याद्या । तथाच सुष्ठु शोभना

श्रुत्यनुसारिणी धीः यस्य स सुधीः तेन सुधिया कार्यानुमेया माया यया इदं

सर्वं जगत् महत्तत्वादि- ब्रह्माण्डान्तं प्रसूयते तत्कारणंनाम शरीरमात्मनः

इति व्यवहितेन संन्धः ॥ ११०॥
 
७२
 

 
तस्याः स्वरूपमाह। सन्नापीति ।

 
सन्नाप्यसन्नाप्युभयात्मिका नो भिन्नाप्यभिन्नाप्युभयात्मिका नो ।

सांगाप्यनंगाप्युभयात्मिका नो महाद्भुताऽनिर्वचनीयरूपा ॥ १११॥
 
66
 

 
लोके तावत् अबाधितस्य सत्वं बाध्यमानस्य असत्यत्वं प्रसिद्धं

यथा ऋतस्यानृतस्य च । कदापि कस्यापि अप्रतीयमानस्य असत्वं

शशविषाणगगनकुसुमादेः । इयं तु माया "भूयश्चान्ते विश्वमाया-

निवृत्तिः" "तरत्यविद्यां विततां हृदि यस्मिन्निवेशिते । योगी मायाममेयाय

तस्मै विद्यात्मने नमः " । '"मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते "

इत्यादिश्रुतिस्मृतिभ्यः ज्ञानबाध्यत्वेनावगम्यते। अतः तस्याः आत्म-

वत्सत्वं दुर्वचम् । "नाभावो विद्यते सतः" इति गीतायाश्च अस्याः

ज्ञानानन्तरं अभावावश्यंभावात् न सत्त्वं । ज्ञानात्प्राक् कार्यरूपेण प्रतीय-

मानत्वेन तत्परिणामित्वेन अनुमितिविषयत्वेन च न शशविषाणवदसत्वं

सुवचम् । सत्वासत्वयोः व्याप्यवृत्तित्वेन कालभेदेन एकत्र स्वीकर्तु-

मनुचितत्वेन नोभयात्मकत्वं तस्याः । एकैकरूपत्वाभावे उभयात्मकत्वस्य

अत्यंतासंभवाच्च । यथा स्वाप्निकपदार्थानां ऐन्द्रजालिकपदार्थानां च

दृष्टनष्टस्वरूपत्वान्मिथ्यात्वं सदसद्विलक्षणत्वरूपं तथा अस्या अपीति

भावः । उक्तं हि "नासतो विद्यते भावः नाभावो विद्यते सतः । उभयो-

रपि दृष्टोन्तस्त्वनयोस्तत्वदर्शिभिः " इति गीतायां । यद्यपि लौकिकाः

पूर्वमुत्पत्तेः अत्यन्तमसतः घटादेर्भावं, उत्पत्यनन्तरं सत्वेन अभ्युपगतस्य

तस्य नाशे अभावं चांगीकुर्वन्ति तदसंगतमिति सर्वज्ञेन भगवतैवोक्तम्
 
(6