2023-02-20 14:42:43 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
,
66
अन्यथान्यथा जगदुत्पत्ति तर्कयन्ति तदसंगतमिति सूचयति सुधियेति ।
सुष्ठुता च धियि श्रुत्यनुसारित्वं तत्सूचितं परमेशशक्तिपदेन । तेन
सांख्यैरुच्यमानं जडं स्वतन्त्रं प्रधानं सत्यं जगन्मूलमित्यादिक-मपास्तम्
वेदितव्यम्। अत्र श्रुतिरप्यस्ति "मायां तु प्रकृतिं विद्यान्मायिनं तु
महेश्वरम् " जीवेशावाभासेन करोति माया ऽविद्या च स्वयमेव
भवति " " इन्द्रो मायाभिः पुरुरूप ईयते" इत्याद्या । तथाच सुष्ठु शोभना
श्रुत्यनुसारिणी धीः यस्य स सुधीः तेन सुधिया कार्यानुमेया माया यया इदं
सर्वं जगत् महत्तत्वादि- ब्रह्माण्डान्तं प्रसूयते तत्कारणंनाम शरीरमात्मनः
इति व्यवहितेन संवन्धः ॥ ११०॥
७२
तस्याः स्वरूपमाह। सन्नापीति ।
सन्नाप्यसन्नाप्युभयात्मिका नो भिन्नाप्यभिन्नाप्युभयात्मिका नो ।
सांगाप्यनंगाप्युभयात्मिका नो महाद्भुताऽनिर्वचनीयरूपा ॥ १११॥
66
लोके तावत् अबाधितस्य सत्वं बाध्यमानस्य असत्यत्वं प्रसिद्धं
यथा ऋतस्यानृतस्य च । कदापि कस्यापि अप्रतीयमानस्य असत्वं
शशविषाणगगनकुसुमादेः । इयं तु माया भूयश्चान्ते विश्वमाया-
निवृत्तिः" "तरत्यविद्यां विततां हृदि यस्मिन्निवेशिते । योगी मायाममेयाय
तस्मै विद्यात्मने नमः " । 'मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते "
इत्यादिश्रुतिस्मृतिभ्यः ज्ञानबाध्यत्वेनावगम्यते। अतः तस्याः आत्म-
वत्सत्वं दुर्वचम् । "नाभावो विद्यते सतः" इति गीतायाश्च अस्याः
ज्ञानानन्तरं अभावावश्यंभावात् न सत्त्वं । ज्ञानात्प्राक् कार्यरूपेण प्रतीय-
मानत्वेन तत्परिणामित्वेन अनुमितिविषयत्वेन च न शशविषाणवदसत्वं
सुवचम् । सत्वासत्वयोः व्याप्यवृत्तित्वेन कालभेदेन एकत्र स्वीकर्तु-
मनुचितत्वेन नोभयात्मकत्वं तस्याः । एकैकरूपत्वाभावे उभयात्मकत्वस्य
अत्यंतासंभवाच्च । यथा स्वाप्निकपदार्थानां ऐन्द्रजालिकपदार्थानां च
दृष्टनष्टस्वरूपत्वान्मिथ्यात्वं सदसद्विलक्षणत्वरूपं तथा अस्या अपीति
भावः । उक्तं हि "नासतो विद्यते भावः नाभावो विद्यते सतः । उभयो-
रपि दृष्टोन्तस्त्वनयोस्तत्वदशिभिः " इति गीतायां । यद्यपि लौकिकाः
पूर्वमुत्पत्तेः अत्यन्तमसतः घटादेर्भावं, उत्पत्यनन्तरं सत्वेन अभ्युपगतस्य
तस्य नाशे अभावं चांगीकुर्वन्ति तदसंगतमिति सर्वज्ञेन भगवतैवोक्तम्
(6