This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
७१
 
अयं
 
परमानन्दत्वसंकीर्तनात् । युक्तं ह्येतत् वैषयिकानन्दः सामयः
निरामय इति । अत एव किल सार्वभौमोपि सहस्रशः विषयान् लब्धं
भोक्तुं समर्थोपि निद्रां विना जीवितुं न प्रभवति । तत्र कारणं स्वरूपानन्दस्य
दुःखालिप्तत्वं । तदुक्तं "को ह्येवान्यात् कः प्राण्यात् । यदेष आकाश
आनन्दो न स्यात् " इति । आकाश आकाशवन्निलिप्त इत्यर्थः । सुषुप्तौ
यद्यपि तमसा आव्रियते सुखं, अथापि जाग्रत्स्वप्न-सुखापेक्षया तस्य परमत्वे,
किं वक्तव्यं तस्मिन् तमस्यपि ज्ञानेन नाश्यमाने आवरणनिवृत्या मिहिका-
विगमे भ्राजमानः सूर्य इव स्वयं प्रकाशमान: आत्मानन्द: ईदृगिति । एवं
श्रुतिः, प्रत्यक्षं साक्षिप्रत्यक्षं सर्वजनसिद्धं ऐतिह्यं अभियुक्तानां वचनं,
अनुमानं आत्मा सदानन्दस्वरूपः सदा निरतिशयप्रेमास्पदत्वात् यन्नैवं
तन्नैवं, यथा शब्दादिः इत्यादि च जाग्रति प्रमाणानि आत्मनः सदानन्दत्व-
विषये ॥१०९ ॥
 
एवमियता प्रबन्धेन अनात्मनः स्थूलदेहं शब्दादिविषयान् सूक्ष्मदेहं
च विभज्य तद्धर्मांश्च निर्धर्मकासंगात्म-तत्वप्रतिपत्यर्थं विविच्य इदानीं
उक्तानां अनात्मनां हेतुं कारणदेहं निरूपयितुमारभते । अव्यक्तेति ।
अव्यक्तनाम्नी परमेशशक्ति: अनाद्यविद्या त्रिगुणात्मिका परा ।
कार्यानुमेया सुधियैव माया यया जगत्सर्वमिदं प्रसूयते ॥ ११० ॥
 
अव्यक्तमिति नाम यस्याः, तस्याः प्रत्यक्षतः अनुपलंभात् । तत्र हेतुः
रूपादिरहितत्वं । परमेशस्य परमेश्वरस्य ब्रह्मणः, शक्तिः अचिन्त्याद्-
भुतशक्तिः न विद्यते आदिः यस्याः अनादिः सा च सा अविद्या च । वस्तुतः
न विद्यते इत्यविद्या अनाद्यविद्या । त्रयो गुणाः सत्वरजस्तमांसि यस्य
तथाविधः आत्मा स्वरूपं यस्याः त्रिगुणात्मिका । यद्वा त्रयो गुणाः त्रिगुणाः
त एव आत्मा यस्याः गुणत्रयस्वरूपेत्यर्थः । परा हिरण्यगर्भादि-स्वकार्येभ्यः
परा उत्कृष्टा तत्कारणत्वात् । अव्यक्तनामत्वे हेतुमाह कार्यानुमेया रूपाद्य-
भावेन प्रत्यक्षगोचरत्वाभावेपि शब्दादिभिः गगनादिकमिव कार्यलिंगेनानु-
मेया । एतच्छक्त्यनंगीकारे निर्गुणस्य ब्रह्मणः स्रष्टृत्वायोगात् निष्कारणं
कार्योत्पत्ययोगात् खादिसकलविकारहेतुत्वेन श्रुत्या प्रतीयमानेक्षण-
संकल्पादि-परिणामित्वेन मायायाः सिद्धिरिति भावः । अशब्दशरणाः