This page has been fully proofread once and needs a second look.

७०
 
श्रीविवेकचूडामणिः सव्याख्यः
 
आत्मार्थत्वेन हि प्रेयान् विषयो न स्वतः प्रियः ।

स्वत एव हि सर्वेषां आत्मा प्रियतमो यतः ॥१०८॥
 

 
हि यस्मात्कारणात् विषयः स्वतः विषयत्वेन हेतुना न प्रियः प्रीति-

गोचरः किंतु आत्मार्थत्वेन आत्मनः सुखं दुःखनिवृत्तितिं वा जनयतीति प्रेयान्

प्रेमविषयः। यदि स्वत एव विषयत्वेन शब्दादिरूपत्वेन प्रेयान्स्यात् कदापि

प्रेयस्त्वं न व्यभिचरेत्। त्यजंति पूर्वमिष्टत्वेन ज्ञातमपि शब्दादिकं पुत्रमित्र-

कलत्रादिकंच । शरीरमपि दण्डयन्ति प्राणं निरुन्धन्ति मनश्च लयमापादयन्ति

किमन्यत्, आनंदमयकोशत्वेन प्रसिद्धं अज्ञानमपि भंजयन्ति । तत्र कारणं

इतरत्र आनन्दरूपत्वाभाव : आनन्द -प्रयोजकत्वस्याप्यनियतत्वम् । आत्म-

नस्तु आनन्दरूपत्वस्य स्वतः सिद्धत्वात् सर्वदा प्रियतमत्वं, उक्तं हि

"
मा नभूवं हि भूयासमिति प्रेमात्मनीक्ष्यते " इति । कदापि माभूवमिति

न, अपितु सर्वदा भूयासमिति तदर्थः । तत्तु आत्मनः एकस्यैव युज्यते,

स्थूलं स्वप्ने न भासते सूक्ष्मं सुषुप्तौ न, कारणं न समाधौ । शब्दादि-

विषयाश्च न सुषुप्तिसमाध्योः । यदा स्थितिस्तेषां जागरस्वप्नयोः तदापि

नैयत्येन आनन्दजनकत्वाभावः । इदमुपपादितमधस्तात् ।

अतः सर्वा-
वस्थासु अनुवर्तमानः विषयाद्यभावेपि सकलप्राणिसिद्धतया सुषुप्तौ,

ज्ञान्यनुभवेन समाधौ च आनन्दरूपत्वेन अनुभवगोचरः आत्मा स्वत एव

निरुपाधिकतया सर्वेषां प्राणिनां प्रियतमो मतः, हि यस्मात् ॥ १०८॥
 
((
 

 
तत आत्मा सदानन्दो नास्य दुःखं कदाचन ।

 
यत्सुषुप्तौ निर्विषय आत्मानन्दोनुभूयते ।

श्रुतिः प्रत्यक्षमैतिह्यं अनुमानं च जाग्रति ॥ १०९।
 

 
ततः सर्वदा सर्वप्राणिप्रियतमत्वात् आत्मा सदानन्दः सर्वदाप्यानन्द-

स्वरूपः । अस्य दुःखं आनन्दस्वरूपस्य, कदाचन कदापि नास्तीत्यर्थः । तत्रा-

नुभवं प्रमाणयति यदिति । यस्मात्सुषुप्तौ अवस्थायां, निर्विषय: आनन्दहेतु-

त्वेनाभिमत-शब्दस्पर्श-रूपरस-गन्धादि-सकलविषय-संबन्धनिर्मुक्तः, आत्मा-

नन्दः स्वरूपानन्दः स्वभावसिद्धः अनुभूयते, सर्वैरपीति शेषः । अस्यानुभवस्य

देहात्मानुभववन्नभ्रान्तित्वं वक्तव्यमित्याह श्रुतिरिति । "एषोस्य परम

आनन्द: " "एषास्य परमा संपत्" इति सौषुप्तानन्दस्यैव अज्ञानि-
3366
 
V