This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
६९
 
एवं बाह्यः सर्वः संसारः अन्तःकरणमूलकः आत्मन इत्युक्त्वा कर्तृत्व-

सुखदुःखादिकं आन्तरं तस्यैवेत्याह । अहंकार इति ।
 

 
अहंकारः स विज्ञेयः कर्ता भोक्ताभिमान्ययम् ।

सत्वादिगुणयोगेना-वस्थात्रितमश्नुते ॥१०६ ॥
 

 
एवं चित्प्रतिबिंब - विशिष्टमन्तःकरणमेव चक्षुरादौ शरीरेच अह-

मित्यभिमानेन वर्तमान अहंकार इति विज्ञेयं । स इति विधेयप्राधान्या-

न्
निर्देशः । अयमेव कर्ता भोक्ता इत्यभिमानी । अस्य सत्वरजस्तमोरूप-

गुणत्रयमय -प्रकृतिकार्यत्वात् सत्वादिगुणयोगेन अवस्थात्रितयं जाग्रत्स्वप्न-

सुषुप्तिरूपावस्थात्रयं अयं अश्नुते प्राप्नोति रजोगुणयोगेन जागर:,

सत्वयोगेन स्वप्नः, तमसा सुषुप्तिरिति भेदः । सर्वदा गुणत्रयसत्वेपि तदा

तदा तस्य औत्कट्यं ज्ञेयम्॥१०६॥
 

 
एवं कर्तृत्वभोर्तृत्वे आन्तरे तद्धर्मावित्युक्त्वा सुखदुःखयोरपि तद्धर्मत्व-

माह । विषयाणामिति ।
 

 
विषयाणामानुकूल्ये सुखी दुःखी विपर्यये ।
 

सुखं दुःखं च तद्धर्मः सदानन्दस्य नात्मनः ॥१०७॥

 
विषयाणां शब्दादीनां आनुकूल्ये स्वकीयेच्छानुसारेण संप्राप्तौ सुखी,

अहं सुखीति प्रतीतिः। विपर्यये प्रातिकूल्येन स्वेच्छाविरोधेन प्रसक्तौ

दुःखी, अहं दुःखीत्यभिमानः । अतः सुखं दुःखं च तद्धर्म: तदिच्छानुरोधित्वा-

त्तयोः, सदा सर्वदा आनंदस्य आनन्दस्वरूपस्य "आनन्दो ब्रह्म " "विज्ञान-
मानन्दं ब्रह्म
" "रसो वै सः " 'यदेष आकाश: इत्यादिश्रुतिभ्यः,
 
366
 
(6
 
""
 

आत्मनः न धर्म इत्यनुषज्यते । युज्यते चैतत् विचार्यमाणे कालांतरे यः

शब्दः सुखमजीजनत् स एव कालान्तरे दुःखं जनयतीति प्रसिद्धं लोके । तत्र

मनोभेदं विना नान्यस्य हेतुत्वं सुवचं विषयस्यैकरूपत्वात् कालस्य च ।

तेनैव शब्देन पुरुषान्तर-सुखोत्पत्तेर्दर्शनात् तस्मिन्नेव काले अहेतुत्वा -

योगात् । मनस्तु पूर्वमिमं शब्दं अनुकूलं व्यजानात् इदानीं तु प्रतिकूलं

मन्यते इति तस्यैव सुखं दुःखं च धर्म इति ॥ १०७ ॥
 
"
 

 
इदानीं श्रुतिप्रसिद्धं सदानन्दत्वं आत्मनः युक्त्या प्रतिपादयति ।

आत्मार्थत्वेनेति ।