2023-02-20 14:42:42 by ambuda-bot
This page has not been fully proofread.
६८
श्रीविवेकचूडामणिः सव्याख्यः
नात्मनः । तत्र हेतुमाह वेत्तुरिति । चक्षुरादौ मन्दत्वपटुत्वादिकं वर्तमानं
साक्षिणात्मना वेद्यत इति न वेद्यस्य वेत्तृधर्मत्वं संभवतीति भावः । तुरव -
धारणे नैवेत्यर्थः ॥ १०३ ॥
उच्छ्वास क्षुत्पिपासादे: प्राणधर्मत्वमाह । उच्छ्वासेति ।
उच्छ्वास-निश्वास-विजृंभण-क्षुत् प्रस्पंदनाद्युत्क्रमणादिकाः क्रियाः ।
प्राणादिकर्माणि वदन्ति तज्ज्ञाः प्राणस्य धर्मावशना - पिपासे ॥१०४॥
प्राणादीत्यादिपदेन अपानादीनां नागादीनां चपरिग्रहः । उच्छ्वासः
प्राणस्य, निश्वास अपानस्य, विजृम्भणं देवदत्तस्य, क्षुतं कृकरस्य, प्रस्पंदनं
प्रकर्षेण चलनं व्यानस्य धनंजयस्य वा । आदिपदेन उन्मीलनपरिग्रहः ।
तत्तु कूर्मस्य, उत्क्रमणमुदानस्य, आदिपदेन वमनं तदपि तस्यैव । एतानि
कर्माणि प्राणादीनां तज्ज्ञाः वदन्ति । इदमिदं कर्म अस्येति विशेषज्ञाः
इत्यर्थः। एवमशना-पिपासे क्षुत् पिपासा च प्राणस्य धर्मों । अत एव
निद्रायां क्षुत्पिपासाद्यभावः तदा प्राणे अभिमानाभावात् ॥ १०४ ॥
यद्येवमन्धत्वादीनां अनात्मचक्षुरादिधर्मत्वं, कुतो वा अयमात्मा
स्वात्मानं तद्धर्मवन्तं जानातीति शंकायामाह । अन्तःकरणमिति ।
अन्तःकरणमेतेषु चक्षुरादिषु वर्ष्माणि ।
अहमित्यभिमानेन तिष्ठत्याभासतेजसा ॥ १०५॥
अन्तःकरणं मनः, एतेषु चक्षुरादिषु ज्ञानेन्द्रियेषु वागादिकर्मेन्द्रियेषु
प्राणादिषु, वर्ष्माणि स्थूलशरीरे च, आभासतेजसा चित्प्रतिफलन-प्रयोज्य-
तेजसा जीवेनेत्यर्थः। अहमित्यभिमानेन अज्ञानप्रयोज्येन तादात्म्यभिमानेन
तिष्ठति। यतः विवेकशून्यं आत्मानात्म-विवेकशून्यं अन्तःकरणं स्वप्रति-
बिबं गृहीत्वा चेतनीभूय चक्षुरादिकं शरीरान्तं अहमित्यभिमन्यते अतः
तद्वशः आत्मापि तद्धर्मान् अन्धत्वादीन् स्वस्मिन्कल्पयित्वा अहमन्ध इत्यादि-
रीत्या व्यवहरतीत्यर्थः । सुषुप्तावन्तःकरणे आत्मप्रतिफलनमपि नास्ति
अहमन्ध इत्यादिव्यवहारोपि नास्ति । एवं स्वप्ने प्रतिफलनसत्वेपि
चक्षुरादौ आभासतेजसा अन्तःकरणं न तिष्ठति स्वप्ने बाह्यकरणगणस्य
लयादित्यपि वेदितव्यम् । तेनैव स्वप्नेपि अन्धत्वादिव्यवहारः जाग्रतीव
नास्तीति भावः ॥१०५॥