2023-02-20 14:42:42 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
६७
वागादिना वा केनाप्युपाधिना क्रियमाणकर्मलेपोप्यस्य नास्तीत्याह यस्मा-
दसंग इति । तत एव असंगत्वरूपकारणादेव उपाधिना कृतैः शरीरेण वा
वाचा वा मनसा वा केनाप्युपाधिना कृतैः कर्मभि: समीचीनासमीचीन-
कर्मभिः किंचिदपि न लिप्यते न संबद्धो भवति ॥१०१ ॥
संगस्तूपाधि-कल्पितः, वास्तविकमसंगत्व-मित्युपपादयति । सर्वेति ।
सर्वव्यापति- करणं लिंगमिदं स्याच्चिदात्मनः पुंसः ।
वास्यादिकमिव तक्ष्णः तेनैवात्मा भवत्यसंगोयम् ॥१०२॥
विशेषादिकमिव
चिदात्मनः ज्ञानस्वरूपस्य, पुंसः पुरुषस्यात्मनः, इदं लिंगं बुध्यादि-
घटितं लिंगशरीरं, तक्ष्णः, त्वष्टुः, वास्यादिकमिव तक्षणकरण-द्रव्य-
सर्वव्यापृतिकरणं सकलव्यापारासाधारण-कारणं,
तक्ष्णोपि तक्षणकरणसत्व एव दार्वादि-तक्षणसामर्थ्यं न स्वभाविकं, तथा-
त्मनोपि आज्ञानिकलंगशरीरसंबन्ध एव सकलोव्यवहारः । अत एव सुषुप्तौ
न व्यवहारः लिंगशरीरसंबंधस्य तदा अभावात् । तेनैव लिंगशरीरसत्वे
व्यापृतिः तदभावे तदभाव इति लोकसिद्धहेतुनैव । अयं आत्मा । असंगः
वास्तविक-सकलव्यवहार-संगहीनः भवतीत्यर्थः ॥१०२॥
ननु अहंप्रतीतिविषयस्यैवात्मत्वात् अहमन्धः अहं बधिरः अहं मूक:
अहमुच्छ्वसिमि क्षुत्पिपासापीडितोस्मि अहं करोमि सुखी दुःखीत्यादि-
बहुतर- धर्मसंवन्धात् असंगत्वमनुपपन्न -मात्मन इति चेत्, तेषां सर्वेषां
धर्माणां तत्तदुपाधिगतत्वादात्मनः कोपि धर्मः सांसारिक: नास्तीति वक्तुं
उपाधि-धर्मान् विभजते । अन्धत्वेत्यादिना ।
अन्धत्व-मन्दत्व-पटुत्वधर्माः
सौगुण्य-वैगुण्य -वशाद्धि चक्षुषः ।
बाधिर्य-मूकत्व-मुखास्तथैव
श्रोत्रादिधर्मान तु वेत्तुरात्मनः ॥ १०३ ॥
आदौ बहिरिन्द्रियधर्मानाह । चक्षुषः सौगुण्य -वशात् पटुत्वं,
वैगुण्यवशादन्धत्वं मन्दत्वं । एवं श्रोत्रवैगुण्यात् बाधिर्यं मन्दत्वं । तत्सौ-
गुण्यात् पटुत्वं । वागिन्द्रियवैगुण्ये मूकत्वं, तत्सौगुण्ये पटुत्वं । एवं त्वग्घ्राण-
रसनरूपेषु ज्ञानेन्द्रियेषु पाणिपादादिषु कर्मेन्द्रियेषु च वेदितव्यम् । एतत्सर्वं