This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
जगतः
 
"
 
बाह्यज्योतींषि न संति स्थूलशरीरं नास्ति बाह्यकरणानां चोपरतव्यापारत्वं
तदा मनः एकमेव आत्मज्योतिः प्रतिफलनमहिम्ना जाग्रद्वासनाविशिष्टं
सर्वाकारतां भजते इति विविक्ते तस्मिन्काले स्वयंज्योतिष्ट्वमुपदिश्यमानं
सुग्रहं भवतीत्यभिप्रायेण "अत्रायं पुरुषः स्वयंज्योति " रित्युक्तिः । यथा
सर्वदापि सजातीय-विजातीय- स्वगतभेदरहिताबाधित- ब्रह्मरूपेण
सत्त्वेपि सृष्टे: प्राक् "सदेव सोम्येद-मग्र आसीदेकमेवाद्वितीयं " इति
श्रोतृबुध्यारोहाय छान्दोग्ये उपदिष्टं तद्वत् स्वप्ने मनसः जाग्रत्संस्कार-
युक्तस्यापि जडस्य परप्रकाश्यत्वनियमात् चैतन्य-ज्योतिस्स्वरूप परमात्म-
प्रतिफलनवशादेव सूर्यचन्द्रादि-प्रकाशक-रूपेण घटपटादिप्रकाश्यरूपेण
परिणममानत्वयोग्यता । अत एव अन्धादयोपि स्वप्ने पदार्थान्पश्यन्ति ।
तेषां जागरे चक्षुरभावात् कथं दर्शनं ? मन एव चक्षूरूपेण आत्मशक्त्या
परिणमत इत्येव वक्तव्यं । एवं चक्षुरादित्यादि - ज्योतिरभावदशायां प्रति-
भासमान-सकलपदार्थभासकत्वं आत्मन एवेति श्रोतृबुद्धौ स्फुटमारोहयितुं
शक्यत्वात् यत्र स्वयंज्योतिरयं परात्मा इति श्रुत्यनुसारेणोक्तं मूले
 
॥१००।
 
(6
 
आलोकदानेन सकलप्राणि-प्रेरकोपि सूर्यः यथा तत्कर्मभिः न सज्यते
एवमात्मापि बुद्धिकृत-कर्मणेत्यसंगत्वमपि प्रसंगादाह ज्योतिष्ट्व
स्वाभाव्यात् । धीमात्रकोपाधिरिति ।
 
धीमात्रकोपाधि-रशेषसाक्षी
 
न लिप्यते तत्कृतकर्मलेपैः ।
यस्मादसंगस्तत एव कर्मभिः
 
न लिप्यते किंचिदुपाधिना कृतैः ॥ १०१॥
 
धीरेव धीमात्रं स्वार्थे कप्रत्ययः, धीमात्रकं उपाधिर्यस्य स्वप्नं
धीमात्रकोपाधिः तत्कृतकर्मलेपैः तया धिया कृतानि यानि कर्माणि तेषां
लेपैः संबन्धैः न लिप्यते विशिष्टो न भवति । तत्र हेतु: अशेषसाक्षीति,
अकर्तृत्वे सति बोद्धृत्वस्यैव साक्षित्वात्, कर्तुरेव कर्मलेपात्, नहि लोकेपि
वादिप्रतिवादिकर्मभि: संबध्यते साक्षी, तद्वदित्यर्थः । " असंगोह्ययं
पुरुष: " " असंगो नहि सज्जते " इत्यादिश्रुत्यनुसारेणासंगत्वाच्च । बुध्या