2023-02-22 15:54:09 by Vasant
This page has been fully proofread once and needs a second look.
जातानां नायं धर्मो विधीयते ।" इति स्मृत्यनुसारेण ऐदंपर्येण ब्रह्म-
विचार-साधन-संन्यासस्य अनवकाशात् एकस्मिन्नेव जन्मनि ब्रह्माधिगमः
तयोर्दुर्लभ इति द्योतनार्थं द्विजत्वं ततः इत्यनुक्त्वा ततो विप्रतेत्युक्तम् ।
'ब्राह्मणस्य तु देहोयं नोपभोगाय कल्पते । इह क्लेशाय महते प्रेत्यानन्त
सुखाय च " ॥ इति वसिष्ठस्मृत्या वेदविहित-प्रवृत्तिनिवृत्ति-धर्मानुष्ठानेन
एकस्मिन्नेव जन्मनि ब्रह्माधिगंतुं शक्यं ब्राह्मणेनेति भावः । अत एव तस्मा-
द्वैदिकधर्ममार्गपरतेत्युक्तम् । न केवलं विप्रतया लब्धव्यं लभ्यते, अपितु तां
लब्ध्वा तदुचितधर्मानुष्ठानेनेति भावः । "धर्मो विश्वस्य जगतः
प्रतिष्ठा " " धर्मेण पापमपनुदति" इति श्रुत्या धर्मस्यैव सुखसाधत्वं
दुःखहेतुपापनिवर्तकत्वं, तन्निवृत्या दुःखाभावहेतुत्वं चेति, सुखं मे भूयात्
दुःखं मे माभूत् इति सकलजन-कामनाविषय- सुखदुःखभावरूप- पुरुषार्थ -
साधनत्वं तस्यैवेति द्योतयितुं "धरतीति धर्मः ध्रियतेऽनेनेति वा धर्मः
इति व्युत्पत्याजगत्प्रतिष्ठा हेतुत्वं तस्य श्रुतिबोधितं सूचयितुं वैदिककर्म-
मार्गपरतेत्यनुक्त्वा धर्ममार्गेत्युक्तं वैदिककर्मणः धर्मत्वेपि कर्मशब्देन
विवक्षितार्थालाभात् । यदि धर्मव्यतिरिक्तं किंचित्सुखसाधनं दुःख-
निवृत्तिसाधनं च स्यात् तत्साधनसंपादनेन सर्वो लोकः सर्वदापि सुखी,
निवृत्तदुःखश्च स्यादेव । धर्मस्य तु अतींद्रियत्वेन शास्त्रैकसमधिगम्यत्वात्
जनानां तज्ज्ञानस्य शास्त्रमन्तराऽसंभवात् साधनालाभात् फलालाभ इति
प्रतिपादयितुं शक्यते । तदुक्तं वैदिकेति । धर्मस्य लक्षणं " चोदना-
लक्षणोर्थो धर्मः" इति जैमिनिमहर्षिभिः सूत्रितं यत् वेदप्रमाणकत्वं
तद्वैदिकेति विशेषणेनावगमितम् । नहि वेदं विना प्रमाणांतरं धर्मविषये
पदमाधातुमीष्टे तस्यातीन्द्रयत्वेन प्रत्यक्षस्य तत्राप्रसरात् । अत एव
नानुमानं तत्र प्रसरति, प्रत्यक्षमूलकत्वादनुमानप्रवृत्तेः । अत एव वेद
व्यतिरिक्तशब्दोपि न तं बोधयितुं पारयति प्रत्यक्षादिनावधारितस्यैवार्थस्य
लौकिकशब्देन बोधयितुं शक्यत्वात् ।
स्मृतीनामपि पौरुषेयत्वेन पुरुषाणां भ्रमप्रमादादिसंभवेन कर्तृदोषनिबन्धनाप्रामाण्यशंकायां
अपौरुषेयतया दोषगंधानागंधितश्रुतिमूलकतयैव प्रामाण्यस्य वक्तव्यतया
वेदव्यतिरिक्तस्य शब्दस्य धर्मे स्वतः अप्रमाणत्वात् । किंच स्मृतिकर्तारो
वा अतीन्द्रियं धर्म कथं व्यजानन् ? योगजसामर्थ्येनेति चेत्
तत्सामर्थ्यं कथं तैः सम्पादितम् ? धर्मानुष्ठानेनेति चेत्, स धर्मः कथं