2023-02-21 15:33:20 by Vasant
This page has not been fully proofread.
विचार-साधन-संन्यासस्य अनवकाशात् एकस्मिन्नेव जन्मनि ब्रह्माधिगमः
तयोर्दुर्लभ इति द्योतनार्थं द्विजत्वं ततः इत्यनुक्त्वा ततो विप्रतेत्युक्तम् ।
'ब्राह्मणस्य तु देहोयं नोपभोगाय कल्पते । इह क्लेशाय महते प्रेत्यानन्त
सुखाय च " ॥ इति वसिष्ठस्मृत्या वेदविहित
एकस्मिन्नेव जन्मनि ब्रह्माधिगंतुं शक्यं ब्राह्मणेनेति भावः । अत एव तस्मा-
द्वैदिकधर्ममार्गपरतेत्युक्तम् । न केवलं विप्रतया लब्धव्यं लभ्यते, अपितु तां
लब्ध्वा तदुचितधर्मानुष्ठानेनेति भावः । "धर्मो विश्वस्य जगतः
प्रतिष्ठा " " धर्मेण पापमपनुदति" इति श्रुत्या धर्मस्यैव सुखसाधत्वं
दुःखहेतुपापनिवर्तकत्वं, तन्निवृत्या दुःखाभावहेतुत्वं चेति, सुखं मे भूयात्
दुःखं मे माभूत् इति सकलजन
साधनत्वं तस्यैवेति द्योतयितुं "धरतीति धर्मः ध्रियतेऽनेनेति वा धर्मः
इति व्युत्पत्याजगत्प्रतिष्ठा हेतुत्वं तस्य श्रुतिबोधितं सूचयितुं वैदिककर्म-
मार्गपरतेत्यनुक्त्वा धर्ममार्गेत्युक्तं वैदिककर्मणः धर्मत्वेपि कर्मशब्देन
विवक्षितार्थालाभात् । यदि धर्मव्यतिरिक्तं किंचित्सुखसाधनं दुःख-
निवृत्तिसाधनं च स्यात् तत्साधनसंपादनेन सर्वो लोकः सर्वदापि सुखी,
निवृत्तदुःखश्च स्यादेव । धर्मस्य तु अतींद्रियत्वेन शास्त्रैकसमधिगम्यत्वात्
जनानां तज्ज्ञानस्य शास्त्रमन्तराऽसंभवात् साधनालाभात् फलालाभ इति
प्रतिपादयितुं शक्यते । तदुक्तं वैदिकेति । धर्मस्य लक्षणं " चोदना-
लक्षणोर्थो धर्मः" इति जैमिनिमहर्षिभिः सूत्रितं यत् वेदप्रमाणकत्वं
तद्वैदिकेति विशेषणेनावगमितम् । नहि वेदं विना प्रमाणांतरं धर्मविषये
पदमाधातुमीष्टे तस्यातीन्द्रयत्वेन प्रत्यक्षस्य तत्राप्रसरात् । अत एव
नानुमानं तत्र प्रसरति, प्रत्यक्षमूलकत्वादनुमानप्रवृत्तेः । अत एव वेद
व्यतिरिक्तशब्दोपि न तं बोधयितुं पारयति प्रत्यक्षादिनावधारितस्यैवार्थस्य
लौकिकशब्देन बोधयितुं शक्यत्वात् ।
स्मृतीनामपि पौरुषेयत्वेन
अपौरुषेयतया दोषगंधानागंधितश्रुतिमूलकतयैव प्रामाण्यस्य वक्तव्यतया
वेदव्यतिरिक्तस्य शब्दस्य धर्मे स्वतः अप्रमाणत्वात् । किंच स्मृतिकर्तारो
वा अतीन्द्रियं धर्म कथं व्यजानन् ? योगजसामर्थ्येनेति चेत्
तत्सामर्थ्यं कथं तैः सम्पादितम् ? धर्मानुष्ठानेनेति चेत्, स धर्मः कथं