This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
६५
 

 
((
 
((
 
सूक्ष्मशरीरमात्रविषयकेण अभिमानेन विभाति प्रकाशते, आत्मा इति

शेषः । संगृहीतमर्थं स्वमात्रशेषत्वं विवृणोति स्वप्नेत्वित्यादिना । स्वप्ने तु

स्वप्नावस्थायां बुद्धिः अन्तःकरणं, स्वयमेव कारकान्तरनिरपेक्षं,

जाग्रत्कालीन-नानाविधवासनाभिः जाग्रदवस्थायां जातैः बहुविधैः संस्कारैः,

कर्त्रादिभावं कर्तृत्वं कर्मत्वं क्रियात्वं करणत्वं अधिकरणत्वं सकल-क्रिया-

कारकभावमिति यावत् । प्रतिपद्य प्राप्य, राजते प्रकाशते । ननु जडस्य

अन्तःकरणस्य कथमीदृशी शक्ति: ? शरीरान्तर्गतनांनाडीषु हिताभिधानासु

यदा मनः संचरति तदा स्वप्न इति श्रुत्या प्रतीतेः तत्र प्रकाशस्य दूरापास्त-

त्वात् इति चेत्तत्राह यत्र स्वयं ज्योतिरयं परात्मा इति । "न तत्र सूर्यो

भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोयमग्निः । तमेव भान्तमनुभाति

सर्वं तस्य भासा सर्वमिदं विभाति " '"यदादित्यगतं तेजो जगद्भासयतेऽ-

खिलं । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकं " इति श्रुति

स्मृतिभ्यां जेगीयमानमहिम्नः पराप्रकाश्यस्य ज्योतीरूपस्य चैतन्यज्योतिषः

परमात्मनःसंबंधात् अन्तःकरणस्य इयं शक्ति: जाग्रत्कालिक-वासना-

सहकृतस्य । ननु " सत्यं ज्ञानं " "विज्ञानमानन्दं ब्रह्म " "अयमात्मा ब्रह्म

सर्वानुभूः
" प्रज्ञानं ब्रह्म" "कृत्स्नः प्रज्ञानघन एव " इत्यादिश्रुतिभ्यः

आत्मनः सार्वदिक-चैतन्य-ज्योतीरूपत्वेन स्वयंज्योतिष्ट्वस्य सर्वदा सत्वेन

किं विशेषतः यत्र स्वयंज्योतिरयं परात्मा इति स्वप्न एव तदुच्यते इति

चेच्छृणु तत्र कारणम् । बृहदारण्यकगत - -ज्योतिर्ब्राह्मणस्य आमूलचूडं

परिशीलनेन इदं स्पष्टं सुज्ञानं । तत्र हि " किंज्योतिरयं पुरुषः इति

जनकेन पृष्टो भगवान् याज्ञवल्क्यः आदौ सर्वलोकप्रसिद्धं सूर्यं तस्मिन्नस्तमिते

चन्द्रमसं तस्मिन्नस्तं याते अग्निनिं तस्मिन्शान्ते वाचं शान्तायां च तस्यां

आत्मानं ज्योतिरुवाच शान्तायां वाचि किकिंज्योतिरेवायं पुरुष इत्यात्मै-

वास्य ज्योतिर्भवतीति आत्मनैवायं ज्योतिषास्ते पल्ययते कर्म

कुरुते विपल्येतीत्यन्तेन । यद्यपीदं ज्योतिष्ट्वं सदातनं, तथापि जाग्रति

करणाद्यनुग्राहकाणां इतरेषां आदित्यादीनां बाह्यानां ज्योतिषां सत्व-

दशायां
आन्तरबाह्य-कार्यकरण-संघातव्यवहारस्य संकुलतायां च न

विविक्तं दर्शयतुं शक्यते । सुषुप्तौ विविक्तत्वेपि प्रकाश्यवस्तुनोभावात्

तदा सर्वस्य दृश्यस्य लीनत्वात् । यद्यप्यस्ति अज्ञानं तथापि तद् अभाव-

रूपत्वेन चर्चास्पदमतः जाग्रत्काल इव यत्र व्यवहारः सर्वो वर्तते अपितु
 
प्रज्ञानं ब्रह्म
 
"
 
दशायां
 
3
 
"66
 
[[
 
3366