This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
बाह्यानां अन्तःकरणस्य च बुद्ध्यादेरभिन्नानामेव आमोक्षं स्थितेरेकत्वं-

मन्तव्यम्। नच वागादावपि भेदो वक्तव्यः, गौरवात् । कर्मप्रतिबन्धा-
सुक्र

न्मुक
त्वाद्युपपादन-संभवात् ।
सर्वकर्म-संस्कारास्पदस्य अन्तःकरणस्य
 

भेदस्य सुतरां वक्तुमशक्यत्वात् । तत्रापि भेदे कृतहानाकृताभ्यागमापत्तेः ।

पूर्वकुल-कमद्याव्त-कर्मद्याश्रयस्य अन्तःकरणस्य नष्टत्वात्, नूतनांतःकरणे कर्म-

वासनाद्यभावात् संसारानुपपत्तिश्च । वाबालकस्य स्तन्यपाने प्रवृत्तिर्नस्यात्

आत्मनः निर्धर्मकत्वात् अविद्याया एकत्वात् सुखदुःखादि-संकरप्रसंगात् ।

सुपुप्तीषुप्तौ भोगस्मृत्याद्युत्पत्तिप्रसंगात् अतो गौरवादुक्त -दोषाच्च वागादीनां
बृ

बु
द्धेत्रश्च आविदेहकैवल्यं अभिन्नानामेव स्थितिरिति मन्तव्यम् । यद्यपि

तेषां प्रागभावाप्रतियोगित्व-रूपानादित्वं अविद्याया इव न संभवति, तथापि

सॠदुत्पन्नानां अभिन्नानामेव स्थितिरिति तात्पर्येण अनादित्वमुक्तम् ।

वस्तुतः आत्मनः एकत्वेपि ज्ञानिष्वपि वर्तमानस्य ब्रह्मवित् ब्रह्मविद्वरः

ब्रह्मविद्वरीयान् ब्रह्मविरिष्ठ इति भूमिकाभेदव्यवहारस्य अन्तःकरण-

भेदेनँनैव उपादिनीयत्वात् " यावत्कार्यमवस्थायि-भेदहेतोरुपाधिता "

इति लक्षणं लिंगशरीरस्य निष्प्रत्यहमिति उपाधित्वं तस्य । ननु असंगत्वेन

केनाप्यनुपधीयमानस्य आत्मनः कथं लिंगेन सोपाधिकत्वं इत्यत आह

स्वाज्ञानतः, स्वस्वरूपस्य इदानीमज्ञातत्वात् तन्मूलक: कल्पितः उपाधि-

रित्यर्थः ॥ ९९॥
 

 
अस्य सूक्ष्मशरीरस्य असाधारणीमवस्थामाह । स्वप्न इति ।

 
स्वप्नो भवत्यस्य विभक्त्यवस्था, स्वमात्रशेषेण विभाति यत्र ।

स्वप्ने तु बुद्धिः स्वयमेव जाग्र-त्कालीन नानाविधवासनाभिः ॥

कर्त्रादिभावं प्रतिपद्य राजते, यत्र स्वयंज्योतिरयं परात्मा ॥ १००।
 
.
 
अस्य सूक्ष्मशरीरस्य, विभक्त्यवस्था भेदकावस्था, स्वप्नो भवति ।

जागरस्य स्थूलसाधारणत्वात् सुषुप्तावस्यैव लीनत्वात् स्वप्न एव सूक्ष्मस्य

प्राधान्यमिति भावः । तत्र हेतुं संगृण्हाति स्वमात्रेत्यादिना । स्वमेव

स्वमात्रं तस्य शेष: अवशिष्टत्वं अभिमन्यमानेन स्वेनैव केवलमित्यर्थः ।

तदा स्थूलदेहे अभिमानाभावात् सूक्ष्मदेहस्यैकस्यैव विशेषतोभिमन्य-

मानत्वमिति । यत्र स्वप्ने स्वमात्रपरिशेषेण स्थूलाभिमानं परित्यज्य