This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
अस्याप्यनेक-पदार्थसंघातरूपत्वात् संहतानां गृहवत् परार्थत्वात्

अनात्मत्वं स्पष्टं कथयति । इदमिति ।
 
६३
 

 
इदं शरीरं शृणु सूक्ष्मसंज्ञितं, लिंगंत्वपंचीकृत-भूतसंभवम् ।

सवासनं कर्मफलानुभावकं स्वाज्ञानतोऽनादि-रुपाधिरात्मनः॥९९॥
 
लिंगं
 

 
सूक्ष्मसंज्ञितं सूक्ष्ममिति संज्ञा सूक्ष्मसंज्ञा सा अस्य संजातेति सूक्ष्म-

संज्ञितं, इदं शरीरं । तस्य जन्यत्वादपि नित्यात्मरूपत्वं नेत्याह अपंची-

कृतभूतसंभवं । अपंचीकृतानि यानि भूतानि गगनादीनि पृथ्व्यंतानि

तेभ्यः संभवः उत्पत्तिः यस्य तत्, इदं सूक्ष्मसंज्ञितत्वे हेतुः ।
लिंगं
लिगि इत्यस्माद्धातो: ज्ञापकमात्मन इत्यर्थः । वागादीनां करणानां

जडानां अधिष्ठातारमन्तरा तत्तत्कार्ये प्रवृत्यनुपपत्तेः, अचेतनं चेतना-

धिष्ठितं कार्यं करोतीति व्याप्तेः रथादौ दृष्टत्वात् । हिरन्तःकरणघटितं

इदं शरीरमेव लिंगमित्युच्यते इत्यर्थः । तुरवधारणे, सुषुप्तौ ज्ञानस्य

सर्वमतसिद्धत्वाभावात् जागरे स्वप्ने च मनोमूलकतयैव ज्ञानस्य जायमान-

त्वात् मनसोपि जडस्य आत्मप्रतिफलनमन्तरा इतरप्रकाशकत्वासंभवात्

आत्मप्रतिविबिंबग्राहित्वेन आत्मज्ञापक-मनोघटितत्वाच्च अस्य शरीरस्य

लिंगत्वमित्यपि बोध्यम् । नेदं स्थूलकारणयोः संभतीति च । आत्मनः

निर्धर्मकत्वात् स्थूलशरीरस्य तदा तदा विनाशित्वेन बहुत्वादामोक्षं

स्थायित्वासंभवात् पूर्वपूर्व-संस्काराणां जनिष्यमाणानुभव-जन्यसंस्काराणां

च आमोक्षं स्थायिलिंग- शरीरमेवाश्रय इत्याह सवासनमिति । वासनाभिः

अनुभवजन्यसंस्कारैः सह् वर्तत इति सवासनम् । भोगहेतुत्वमप्यस्यैवेत्याह,

कर्मफलानुभावकं कर्मणः पुण्यस्य पापस्य च क्रमेणफले ये

सुखदुःखे तदनुभवः
भोगः तज्जनकं । सुषुप्तौ सवासनस्य लिंगशरीरस्य विलीनत्वादेव कर्मज-

सुखदुःखानुभवाभावः । जाग्रत्स्वप्नयोस्तु तथाविधस्य लिंगशरीरस्य

सत्वात्तदनुभवः इत्यन्वयव्यतिरेकाभ्यां भोगहेतुत्वं तस्य ज्ञेयं । आत्मनः

अनादिम्रुपाधिः इदं लिंगशरीरं, सूक्ष्मभूतजन्यमपि महाप्रलयादावपि

अभिव्यक्त्यनभिव्यक्तिभ्यां एकमेवाऽऽविदेह केवलकैवल्यं अवतिष्ठत इति
 

स्थूलशरीरवत्सादित्वं नास्ति । ननु अविद्याशब्दिताध्यास-कामकर्मणां

भिन्नभिन्नानामेव तदा तदा जायमानत्वात् तद्द्घटितलिंगशरीरस्य कथ-

मेकस्यैव स्थिरत्वं संभवतीति चेत् । तेषां तथात्वेपि वागादीन्द्रियाणां