2023-02-20 14:42:41 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
अस्याप्यनेक-पदार्थसंघातरूपत्वात् संहतानां गृहवत् परार्थत्वात्
अनात्मत्वं स्पष्टं कथयति । इदमिति ।
६३
इदं शरीरं शृणु सूक्ष्मसंज्ञितं, लिंगंत्वपंचीकृत-भूतसंभवम् ।
सवासनं कर्मफलानुभावकं स्वाज्ञानतोऽनादि-रुपाधिरात्मनः॥९९॥
लिंगं
सूक्ष्मसंज्ञितं सूक्ष्ममिति संज्ञा सूक्ष्मसंज्ञा सा अस्य संजातेति सूक्ष्म-
संज्ञितं, इदं शरीरं । तस्य जन्यत्वादपि नित्यात्मरूपत्वं नेत्याह अपंची-
कृतभूतसंभवं । अपंचीकृतानि यानि भूतानि गगनादीनि पृथ्व्यंतानि
तेभ्यः संभवः उत्पत्तिः यस्य तत्, इदं सूक्ष्मसंज्ञितत्वे हेतुः ।
लिगि इत्यस्माद्धातो: ज्ञापकमात्मन इत्यर्थः । वागादीनां करणानां
जडानां अधिष्ठातारमन्तरा तत्तत्कार्ये प्रवृत्यनुपपत्तेः, अचेतनं चेतना-
धिष्ठितं कार्यं करोतीति व्याप्तेः रथादौ दृष्टत्वात् । वहिरन्तःकरणघटितं
इदं शरीरमेव लिंगमित्युच्यते इत्यर्थः । तुरवधारणे, सुषुप्तौ ज्ञानस्य
सर्वमतसिद्धत्वाभावात् जागरे स्वप्ने च मनोमूलकतयैव ज्ञानस्य जायमान-
त्वात् मनसोपि जडस्य आत्मप्रतिफलनमन्तरा इतरप्रकाशकत्वासंभवात्
आत्मप्रतिविबग्राहित्वेन आत्मज्ञापक-मनोघटितत्वाच्च अस्य शरीरस्य
लिंगत्वमित्यपि बोध्यम् । नेदं स्थूलकारणयोः संभतीति च । आत्मनः
निर्धर्मकत्वात् स्थूलशरीरस्य तदा तदा विनाशित्वेन बहुत्वादामोक्षं
स्थायित्वासंभवात् पूर्वपूर्व-संस्काराणां जनिष्यमाणानुभव-जन्यसंस्काराणां
च आमोक्षं स्थायिलिंग- शरीरमेवाश्रय इत्याह सवासनमिति । वासनाभिः
अनुभवजन्यसंस्कारैः सह् वर्तत इति सवासनम् । भोगहेतुत्वमप्यस्यैवेत्याह,
कर्मफलानुभावकं कर्मणः पुण्यस्य पापस्य च क्रमेणफले ये
सुखदुःखे तदनुभवः
भोगः तज्जनकं । सुषुप्तौ सवासनस्य लिंगशरीरस्य विलीनत्वादेव कर्मज-
सुखदुःखानुभवाभावः । जाग्रत्स्वप्नयोस्तु तथाविधस्य लिंगशरीरस्य
सत्वात्तदनुभवः इत्यन्वयव्यतिरेकाभ्यां भोगहेतुत्वं तस्य ज्ञेयं । आत्मनः
अनादिम्पाधिः इदं लिंगशरीरं, सूक्ष्मभूतजन्यमपि महाप्रलयादावपि
अभिव्यक्त्यनभिव्यक्तिभ्यां एकमेवाऽऽविदेह केवल अवतिष्ठत इति
स्थूलशरीरवत्सादित्वं नास्ति । ननु अविद्याशब्दिताध्यास-कामकर्मणां
भिन्नभिन्नानामेव तदा तदा जायमानत्वात् तद्द्घटितलिंगशरीरस्य कथ-
मेकस्यैव स्थिरत्वं संभवतीति चेत् । तेषां तथात्वेपि वागादीन्द्रियाणां