This page has been fully proofread once and needs a second look.

६२
 
श्रीविवेकचूडामणिः सव्याख्यः
 
एवं सत्वांशोपेतैः प्रत्येकं पंचभिः भूतैः क्रमेण जायमानानि ज्ञानेन्द्र-

याणि प्रत्येकं तैरेव रजोगुणोपेतैः उत्पद्यमानानि कर्मेन्द्रियाणि, सत्व-

प्रधानानां तेषां समष्टिकार्यमन्तःकरणं च निरूप्य इदानीं रजोजोंशोपेत-

भूतपंचक समष्टिकार्यं सूक्ष्मशरीरघटकं प्राणमाह । प्राणापानेति ।
 

 
प्राणापान-व्यानोदान-समाना भवत्यसौ प्राणः ।

स्वयमेव वृत्तिभेदात् विकृते-र्भेदात्सुवर्ण-सलिलमिव ॥१७॥
 

 
यथा एकमेव सुवर्णं कटकं केयूरं कुण्डलमित्यादि-विकृतिभेदेन

भवति, यथा च विकृतेर्भेदेन एकमेव जलं नदी कुल्या तटाकमित्यादिरीत्या

भेदेन भवंति तथा असौ शरीरान्तस्संचारी प्राणः स्वयमेव वृत्तिभेदात्

प्राणनापानन-व्यानन-समाननोदाननरूपवृत्तिभेदात् प्राणापान-व्यानोदान-

समाना इति भेदेन भवति । सुवर्णसहितं सलिलं सुवर्णसलिलमिति विग्रहः ।

प्रत्येकमर्थो बोद्धव्यः । यथा विकृतेर्भेदात् एकमेव सुवर्णं भिन्नत्वेन व्यव-

ह्रियते यथा च विकृतेर्भेदादेव एकमेव जलं तरंग-फेनबुद्बुदादिभेदेन व्यव-

ह्रियते तद्वदित्यर्थ: । तत्र प्राणनं मुखनासिकाभ्यां निष्क्रमण- प्रवेशनं,

अपाननं मलादीनां अधोनयनं, व्याननं अशितपीतान्नरसादेः नाडीमुखेषु

वितननं, ऊर्ध्वं नयनं उदाननं वमनकाले, भुक्तस्यान्नरसादे: पाका
र्थं
जाठराग्नेः समुन्नयनं समाननं इति वृत्तयः पंच प्राणस्य ॥ ९७ ॥
 

 
इदानीं ज्ञानेन्द्रियादीनि यत्कथनार्थ-मभिहितानि तत्सूक्ष्मशरीरं

विशिष्टमाह । वागादीति ।
 

 
वागादिपंच श्रवणादिपंच प्राणादिपंचा-भ्रमुखाणि पंच ।

बुद्ध्याद्यविद्यापि च काम-कर्मणी पुर्यष्टकं सूक्ष्म-शरीरमाहुः॥९८ ॥
 

 
वागादिपंच कर्मेन्द्रियाणि, श्रवणादिपंच ज्ञानेन्द्रियाणि, प्राणादि-

पंच प्राणपंचकं, अभ्रमुखाणि पंच आकाशादि-सूक्ष्मभूतपंचकं । बुद्धयादि-

अन्तःकरणचतुष्टयं, अविद्या अध्यासः, कामकर्मणी काम: इच्छा कर्म

धर्माधर्माख्यं । एतत्सर्वं मिलितं पदार्थाष्टक - -समुदायोपेतं पुर्यष्टकं सूक्ष्म-

शरीरमाहुः वेदान्तिन इति शेषः । वागादिपंचकं १, श्रवणादिपंचकं

२, प्राणपंचकं ३, भूतपंचकं ४, बुद्धयादिचतुष्टयं ५, अविद्या ६, कामः

७, कर्म ८॥९८॥