This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
६१
 
बुद्धीन्द्रियाणि श्रवणं त्वगक्षि, घाणं च जिह्वा विषयावबोधनात् ।

वाक्पाणिपादा गुदमप्युपस्थं कर्मेन्द्रियाणि प्रवणानि कर्मसु ॥ ९४ ॥
 

 
कर्णशष्कुल्यवच्छिन्नं नभः श्रवणं श्रोत्रं, त्वक् त्वचि स्थितमिन्द्रियं,

अक्षि नेत्रगोलकावच्छिन्नं चक्षुरिन्द्रियं ब्, घ्राणं नासावच्छिन्नं, जिह्वा

रसनेंन्द्रियं एतानि पंच शब्दस्पर्श रूपगन्ध- रसात्मक विषयावबोधनात्

तत्तज्ज्ञानजननात् बुद्धींद्रियाणि ज्ञानेंद्रियाणीति कथ्यन्त इति शेषः ।

वाग्वागिद्रियं वचनशीलं, पाणि: हस्तेन्द्रियं आदानशीलं, पाद: विहरणशीलं

पादेन्द्रियं, गुदं उपस्थं अनयोः क्रमेण शारीर-कठिन-द्रवरूप- हेयभागोत्सर्जन-

हेतुत्वं । एतानि वचनादि -कर्महेतुभूतानीति कर्मेन्द्रियाणीत्युच्यते इति

शेषः ।
तत्र हेतु: प्रवणानि, व्यग्राणि कर्मसु वचनादिष्वित्यर्थः ॥९४॥
 

 
एवं वाबाह्यानि दशेन्द्रियाण्युक्त्वा एतानि सर्वाण्यपीन्द्रियाणि यत्संबन्धे

कार्यं कर्तुं ज्ञानं जनयितुं च प्रभवन्ति नेतरथा तादृशमन्तःकरणं प्रधानं

निरूपयति चातुर्विध्येन सनिमित्तं निगद्यत इत्यादिना ।
 

 
निगद्यतेऽन्तःकरणं मनो धीरहं

कृतितिंश्चित्तमिति स्ववृत्तिभिः ।

मनस्तु संकल्पविकल्पनादिभिः
 

बुद्धिः पदार्थाध्यवसायधर्मतः ॥९५॥
 

 
अत्राभिमानादह-मित्यहंकृतिः

स्वार्थानुसंधानगुणेन चित्तम् ॥९६॥
 
"
 

 
अन्तःकरणमेकमेव स्ववृत्तिभिः वक्ष्यमाणाभिः मनः, धी: बुद्धिः,

अहंकृतिः अहंकारः, चित्तमिति च चतुर्धा निगद्यते इत्यर्थः । नामचतुष्टय-

निमित्तवृत्तीराह संकल्पविकल्पनादिभिः मन इति, संकल्पः सम्यक्त्वबुद्धिः

विकल्पना विविधं कल्पना संशय इति यावत् । पदार्थाध्यवसाय: पदार्थ-

निर्णयः तद्रूपधर्मतः वृत्तितः बुद्धिरुच्यते । अत्र शरीरादौ अभिमानात्

अहमित्यध्यासात् अहंकृतिः अहंकार इति च उच्यते । स्वार्थानुसंधानगुणेन

स्मरणवृत्येत्यर्थः चित्तमिति कथ्यते ॥९६ ॥