This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
६१
 
बुद्धीन्द्रियाणि श्रवणं त्वगक्षि, घाणं च जिह्वा विषयावबोधनात् ।
वाक्पाणिपादा गुदमप्युपस्थं कर्मेन्द्रियाणि प्रवणानि कर्मसु ॥ ९४ ॥
 
कर्णशष्कुल्यवच्छिन्नं नभः श्रवणं श्रोत्रं, त्वक् त्वचि स्थितमिन्द्रियं,
अक्षि नेत्रगोलकावच्छिन्नं चक्षुरिन्द्रियं ब्राणं नासावच्छिन्नं, जिह्वा
रसनेंन्द्रियं एतानि पंच शब्दस्पर्श रूपगन्ध- रसात्मक विषयावबोधनात्
तत्तज्ज्ञानजननात् बुद्धींद्रियाणि ज्ञानेंद्रियाणीति कथ्यन्त इति शेषः ।
वाग्वागिद्रियं वचनशीलं, पाणि: हस्तेन्द्रियं आदानशीलं, पाद: विहरणशीलं
पादेन्द्रियं, गुदं उपस्थं अनयोः क्रमेण शारीर-कठिन-द्रवरूप- हेयभागोत्सर्जन-
हेतुत्वं । एतानि वचनादि कर्महेतुभूतानीति कर्मेन्द्रियाणीत्युच्यते इति
शेषः ।
तत्र हेतु: प्रवणानि, व्यग्राणि कर्मसु वचनादिष्वित्यर्थः ॥९४॥
 
एवं वाह्यानि दशेन्द्रियाण्युक्त्वा एतानि सर्वाण्यपीन्द्रियाणि यत्संबन्धे
कार्यं कर्तुं ज्ञानं जनयितुं च प्रभवन्ति नेतरथा तादृशमन्तःकरणं प्रधानं
निरूपयति चातुर्विध्येन सनिमित्तं निगद्यत इत्यादिना ।
 
निगद्यतेऽन्तःकरणं मनो धीरहं
कृतिश्चित्तमिति स्ववृत्तिभिः ।
मनस्तु संकल्पविकल्पनादिभिः
 
बुद्धिः पदार्थाध्यवसायधर्मतः ॥९५॥
 
अत्राभिमानादह-मित्यहंकृतिः
स्वार्थानुसंधानगुणेन चित्तम् ॥९६॥
 
"
 
अन्तःकरणमेकमेव स्ववृत्तिभिः वक्ष्यमाणाभिः मनः, धी: बुद्धिः,
अहंकृतिः अहंकारः, चित्तमिति च चतुर्धा निगद्यते इत्यर्थः । नामचतुष्टय-
निमित्तवृत्तीराह संकल्पविकल्पनादिभिः मन इति संकल्पः सम्यक्त्वबुद्धिः
विकल्पना विविधं कल्पना संशय इति यावत् । पदार्थाध्यवसाय: पदार्थ-
निर्णयः तद्रूपधर्मतः वृत्तितः बुद्धिरुच्यते । अत्र शरीरादौ अभिमानात्
अहमित्यध्यासात् अहंकृतिः अहंकार इति च उच्यते । स्वार्थानुसंधानगुणेन
स्मरणवृत्येत्यर्थः चित्तमिति कथ्यते ॥९६ ॥