This page has been fully proofread once and needs a second look.

င် ဝ
 
श्रीविवेकचूडामणिः सव्याख्यः
 
तमेव बाह्यं संसारं विशदयति । स्थूलस्येति ।

 
स्थूलस्य संभवजरामरणानि धर्माः

स्थौल्यादयो बहुविधा: शिशुताद्यवस्थाः ।

वर्णाश्रमादि-नियमा बहुधामयाः स्युः
 

पूजावमान- बहुमानमुखा विशेषाः ॥ ९३॥
 

 
संभवः उत्पत्तिः, जरा वार्धक्यं, मरणं मृतिः, स्थौल्यं अवयवोपचयः,

आदिपदेन तदपचयरूपकार्श्यं शौक्ल्यकार्थ्ष्ण्यादिवर्णाः बहुविधा: बह्व्यः

विधाः येषां ते धर्माः बहुविधा: । शिशुता आदिः यासां कुमारता युवत

वृद्धतानां ताः अवस्थाः, यद्यपि जराशब्देन पूर्व वृद्धता अग्राहि, अथाप्यत्र

शिशुताद्यवस्थामध्ये पुनर्ग्रहणे न दोषः, वर्णाश्रमादिनियमाः वर्णाः ब्राह्मणत्व

क्षत्रियत्व-विट्त्व-शूद्रत्वानि
आश्रमाः ब्रह्मचर्य-गार्हस्थ्य-वानप्रस्थत्व-
ब्राह्मणत्व
ब्रह्मचर्याद्यु-
ब्राह्मणत्व-ब्रह्मचर्याद्यु-
आश्रमाः
 

संन्यासा:, आदिपदेन गोत्रसूत्रादयः तेषां नियमाः,
 
ब्राह्मणत्व-ब्रह्मचर्याद्यु-
चित-धर्माः, कुलाद्याचाराश्च । बहुधा आमया: ज्वरशिरोवेदनाप्रभृतयः ।

पूजावमान-बहुमानमुखाः विशेषाश्च स्यु: । पूजा गंधपुष्पादिकृता, अवमानः

वाचाप्यनादरणादिरूप - -तिरस्कार : अक्ष्णाप्यनीक्षणादिश्च । बहुमान: उच्चा-

सनोपवेशनादिः एतन्मुखा विशेषाश्च स्युः । जातकर्मादि-संस्काराणां

शरीरस्यैव क्रियमाणत्वात् तत्तदाश्रमचिह्नानां च शरीर एव उपलभ्य-

मानत्वात् वर्णाश्रमादिनियमाः स्थूलस्य शरीरस्य इत्युक्तम् । यद्य-

प्यान्तराः नियमाः संत्येव अन्तरंगस्य । अथापि प्रत्यक्षानियमा अस्येत्यभि-

प्रायः । यद्वा यैर्नियमैः अयं ब्राह्मणः अयं ब्रह्मचारीत्यादिकं ज्ञातं परेणापि

शक्यते ते नियमा इत्यर्थः । ते तावन्नियमाः शरीरसंस्कारद्वारा चित्तं

संस्कुर्वन्ति । तद्वारा ज्ञानोपयोगित्वं भजन्त इति अध्यासेनापि ते नियत-

मादर्तव्याः, इतरे धर्माः बन्धकत्वात् पूजावमानादयः नादर्तव्या इति

भावः ॥ ९३ ॥
 

 
एवमनात्मानं स्थूलदेहं तन्मूलकं संसारबन्धं च वर्णाश्रमादि-

धर्मानुष्ठानेन तस्य मोचकत्वरीतिमपि निरूप्य इदानीं सूक्ष्मशरीरं

निरूपयितुमारभते बुद्धीत्यादिना पंचभिः श्लोकैः ।