This page has not been fully proofread.

င် ဝ
 
श्रीविवेकचूडामणिः सव्याख्यः
 
तमेव बाह्यं संसारं विशदयति । स्थूलस्येति ।
स्थूलस्य संभवजरामरणानि धर्माः
स्थौल्यादयो बहुविधा: शिशुताद्यवस्थाः ।
वर्णाश्रमादि-नियमा बहुधामयाः स्युः
 
पूजावमान- बहुमानमुखा विशेषाः ॥ ९३॥
 
संभवः उत्पत्तिः, जरा वार्धक्यं, मरणं मृतिः, स्थौल्यं अवयवोपचयः,
आदिपदेन तदपचयरूपकार्यं शौक्ल्यकार्थ्यादिवर्णाः बहुविधा: बह्वयः
विधाः येषां ते धर्माः बहुविधा: । शिशुता आदिः यासां कुमारता युवत
वृद्धतानां ताः अवस्थाः, यद्यपि जराशब्देन पूर्व वृद्धता अग्राहि, अथाप्यत्र
शिशुताद्यवस्थामध्ये पुनर्ग्रहणे न दोषः, वर्णाश्रमादिनियमाः वर्णाः ब्राह्मणत्व
क्षत्रियत्व-वित्व-शूद्रत्वानि
ब्रह्मचर्य-गार्हस्थ्य-वानप्रस्थत्व-
ब्राह्मणत्व
ब्रह्मचर्याद्यु-
ब्राह्मणत्व-ब्रह्मचर्याद्यु-
आश्रमाः
 
संन्यासा:, आदिपदेन गोत्रसूत्रादयः तेषां नियमाः,
 
चित-धर्माः, कुलाद्याचाराश्च । बहुधा आमया: ज्वरशिरोवेदनाप्रभृतयः ।
पूजावमान-बहुमानमुखाः विशेषाश्च स्यु: । पूजा गंधपुष्पादिकृता, अवमानः
वाचाप्यनादरणादिरूप - तिरस्कार : अक्ष्णाप्यनीक्षणादिश्च । बहुमान: उच्चा-
सनोपवेशनादिः एतन्मुखा विशेषाश्च स्युः । जातकर्मादि-संस्काराणां
शरीरस्यैव क्रियमाणत्वात् तत्तदाश्रमचिह्नानां च शरीर एव उपलभ्य-
मानत्वात् वर्णाश्रमादिनियमाः स्थूलस्य शरीरस्य इत्युक्तम् । यद्य-
प्यान्तराः नियमाः संत्येव अन्तरंगस्य । अथापि प्रत्यक्षानियमा अस्येत्यभि-
प्रायः । यद्वा यैनियमैः अयं ब्राह्मणः अयं ब्रह्मचारीत्यादिकं ज्ञातं परेणापि
शक्यते ते नियमा इत्यर्थः । ते तावनियमाः शरीरसंस्कारद्वारा चित्तं
संस्कुर्वन्ति । तद्वारा ज्ञानोपयोगित्वं भजन्त इति अध्यासेनापि ते नियत-
मादर्तव्याः, इतरे धर्माः बन्धकत्वात् पूजावमानादयः नादर्तव्या इति
भावः ॥ ९३ ॥
 
एवमनात्मानं स्थूलदेहं तन्मूलकं संसारबन्धं च वर्णाश्रमादि-
धर्मानुष्ठानेन तस्य मोचकत्वरीतिमपि निरूप्य इदानीं सूक्ष्मशरीरं
निरूपयितुमारभते बुद्धीत्यादिना पंचभिः श्लोकैः ।