2023-02-24 12:25:44 by Vasant
This page has been fully proofread once and needs a second look.
५९
रूपाणि यस्यां सा स्रक्चन्दन - स्त्र्यादिविचित्ररूपा तां स्रक्चन्दन
विचित्ररूपां, स्थूलपदार्थसेवां, पदार्थेषु स्थूलत्वं पूर्वमुक्तम्, अभिमानि-
देवतानुग्रह-प्रयोज्य-सुखदुःखानुभवं, जीव: प्रत्यगात्मा, एतदात्मना स्थूल-
देहात्मना मनोद्वारा स्थूलशरीर
भावेनेति यावत्, स्वयं करोति । स्वप्ने तावत् स्थूलदेहे मनस्संयोगा-
भावात् तत्र स्वरूपप्रतिफलनमपि नास्ति इति तस्य तदा भोगहेतुत्वं
नास्ति, अपितु तदा कल्पितस्य अन्यस्य स्थूलदेहस्यैव वासनामयस्य ।
प्रसिद्धं किल स्वप्ने प्रसिद्ध
भोगान्भुंजत इति । तस्मादस्य वपुषः स्थूलस्य देहस्य जागरे जाग्रदवस्थायां
प्रशस्तिः प्रामुख्यमित्यर्थः । स्वप्नसुषुप्त्योरत्र अभिमानस्यैवाभावादिति
भावः । इत्थं च तयोरवस्थयोरभासमानस्य जाग्रति परं प्रतीयमानस्या-
नात्मत्वं व्यावृत्तत्वात् सिद्धमिति भावः । सर्वावस्थासाक्षिणस्त्वात्मनः
अनुवृत्तत्वादेतभिन्नत्वं सुज्ञानम् ॥ ९१॥
-
यथा कश्चिदपि लोके स्वीयं गृहं स्वात्मत्वेन नमनुते तथा मन्तव्ये
स्थूल
स्थूलदेहे अहंता सुतरां न कार्येत्यभिप्रायेणाह। सर्व इति ।
सर्वोपि बाह्यः संसारः पुरुषस्य यदाश्रयः ।
विद्धि देहमिदं स्थूलं गृहवद्गृहमेधिनः ॥ ९२ ॥
संसारो द्विविध: बाह्य आन्तरश्चेति । तत्र आन्तरः सुखदुःख-
कर्तृत्व-भोक्तृत्वादिः ।
इ
श्लोके निरूपयिष्यते बाह्यः सर्वोपि संसार । असंसारिणः पुरुषस्य
यदाश्रयः यत्र तादात्म्याध्यासनिबन्धनः तत् इदं स्थूलंदेहं गृहमेधिनः
गृहस्थाश्रमिणः कुटुम्बिन इति यावत् । गृहवत् सदनवत् विद्धि जानीहि ।
प्रसिद्धं खलु लोके एकं गृहमाश्रित्य वर्तमानः कलत्रादिक
गृहस्याप्यभावे विवाहादौ प्रयतते कश्चित् । तथा स्थूलदेहं आत्मत्वेन मन्वान
एव तदीयधर्मान् जरामरणादीन् स्वकीयान्मनुते दुःखमनुभवति च नान्यथा ।
नहि सुषुप्तौ स्थूलदेहाभिमानशून्यस्य जरारोगादिपीडेति भावः । अतः
गृहवदत्यंतभिन्नत्वेन ज्ञेये अहंता न युक्तेति भावः ॥ ९२॥