This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
पूर्वं तावत् नभआदीनि सूक्ष्माणि भूतानि परस्परांश:शैः मिलितानि

स्थूलानि संति स्थूलशरीरहेतव इत्युक्तम् । तत्र पंचीकरणं न शब्दत:

स्पष्टं कथितं तदिदमुक्तं पंचीकृतेभ्य इति । अत एव स्थूलेभ्यः पृथिवी-

त्यादिव्यवहारयोग्येभ्यः भूतेभ्यः, तत्रापि देवतिर्यङ्मनुष्यादि-शरीरप्रभेदे

बीजमाह पूर्वकर्मण इति । पुण्यपापमिश्रानुसारेण देवादिशरीरोत्पत्तिरिति

भावः । इदं प्रत्यक्षसिद्धं, आत्मनो जीवस्य, भोगायतनं यदवच्छेदेन भोगो

जायते तद्भोगायतनं सुखदुःखसाक्षात्कारावच्छेदकमित्यर्थः । समुत्पन्नं

असंकरेण जातमित्यर्थः । तत्तत्कर्मानुसारेण कर्मफलदाता सर्वज्ञः ईश्वरः

तत्तच्छरीरं तस्मै तस्मै ददातीति संकरशंकाया नावसरः इति समुपसर्गेण

पूर्वकर्मणेति-पदसहितेन द्योतितम् । इदानीं स्थूलदेहः यदात्मत्वेनाभिमन्यते

तां अवस्थामाह तस्य व्यावृत्तत्वं आत्मनः अनुवृत्तत्वं च सम्यग्बोधयित्वा

तत्रानात्मत्वं स्पष्टयितुं । तस्य स्थूलदेहस्य अवस्था असाधारणी भोग-

हेतुत्वप्रयोजकः कालः जागर:, " इंद्रियैरर्थोपलब्धिर्जागरितं " इति लक्षण-

लक्षिता जाग्रदवस्थेत्यर्थः । तदेव विशदयति स्थूलार्थानुभवो यतः, अर्थेषु

स्थूलत्वं दिगाद्यभिमानि-देवतानुगृहीत-श्रोत्रादीन्द्रियगृह्यमाणत्वं

शब्दादिषु । स्वप्नंने इन्द्रियाणां उपरतव्यापारत्वात्
वासनामयानां
शब्दादीनां देवतानुगृहीतेन्द्रिय गृह्यमाणत्वं नास्ति । मनसः इन्द्रियत्वपक्षे

इन्द्रियगृह्यमाणत्वेपि तत्र तद्ग्राहकत्वेन प्रसिद्धेन्द्रियगृह्यमाणत्वं नास्ति

इति भावः । यतः यस्मात् स्थूलशरीरात् तत्राभिमानात् स्थूलार्थानुभव:,

ततः तत्कारणात् तस्य स्थूलदेहस्य जागर: अवस्थेत्यर्थः ॥९०॥
 

 
वासनामयानां
 

 
उक्तमर्थं विशदयति । वाघेंबाह्येंद्रियैरिति ।
 

 
बाह्येन्द्रियँयैस्थूलपदार्थसेवां
 
५८
 

स्रक्चन्दनस्त्र्यादि-विचित्र-रूपाम् ।
 

करोति जीवः स्वयमेतदात्मना
 

तस्मात्प्रशस्तिर्वपुषोस्य जागरे ॥११॥
 

 
बाह्येयेंद्रियैः त्वग्घ्राणचक्षुरादिभिः स्रक्चन्दनस्त्र्यादिविचित्ररूपां

रूप्यंते विषयीत्क्रियन्ते इति रूपाणि विचित्राणि च तानि रूपाणि च, स्रक्च