This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
पूर्वं तावत् नभआदीनि सूक्ष्माणि भूतानि परस्परांश: मिलितानि
स्थूलानि संति स्थूलशरीरहेतव इत्युक्तम् । तत्र पंचीकरणं न शब्दत:
स्पष्टं कथितं तदिदमुक्तं पंचीकृतेभ्य इति । अत एव स्थूलेभ्यः पृथिवी-
त्यादिव्यवहारयोग्येभ्यः भूतेभ्यः, तत्रापि देवतिर्थमनुष्यादि-शरीरप्रभेदे
बीजमाह पूर्वकर्मण इति । पुण्यपापमिश्रानुसारेण देवादिशरीरोत्पत्तिरिति
भावः । इदं प्रत्यक्षसिद्धं, आत्मनो जीवस्य, भोगायतनं यदवच्छेदेन भोगो
जायते तद्भोगायतनं सुखदुःखसाक्षात्कारावच्छेदकमित्यर्थः । समुत्पन्नं
असंकरेण जातमित्यर्थः । तत्तत्कर्मानुसारेण कर्मफलदाता सर्वज्ञः ईश्वरः
तत्तच्छरीरं तस्मै तस्मै ददातीति संकरशंकाया नावसरः इति समुपसर्गेण
पूर्वकर्मणेति-पदसहितेन द्योतितम् । इदानीं स्थूलदेहः यदात्मत्वेनाभिमन्यते
तां अवस्थामाह तस्य व्यावृत्तत्वं आत्मनः अनुवृत्तत्वं च सम्यग्बोधयित्वा
तत्रानात्मत्वं स्पष्टयितुं । तस्य स्थूलदेहस्य अवस्था असाधारणी भोग-
हेतुत्वप्रयोजकः कालः जागर:, " इंद्रियैरर्थोपलब्धिर्जागरितं " इति लक्षण-
लक्षिता जाग्रदवस्थेत्यर्थः । तदेव विशदयति स्थूलार्थानुभवो यतः, अर्थेषु
स्थूलत्वं दिगाद्यभिमानि-देवतानुगृहीत-श्रोत्रादीन्द्रियगृह्यमाणत्वं
शब्दादिषु । स्वप्नं इन्द्रियाणां उपरतव्यापारत्वात्
शब्दादीनां देवतानुगृहीतेन्द्रिय गृह्यमाणत्वं नास्ति । मनसः इन्द्रियत्वपक्षे
इन्द्रियगृह्यमाणत्वेपि तत्र तद्ग्राहकत्वेन प्रसिद्धेन्द्रियगृह्यमाणत्वं नास्ति
इति भावः । यतः यस्मात् स्थूलशरीरात् तत्राभिमानात् स्थूलार्थानुभव:,
ततः तत्कारणात् तस्य स्थूलदेहस्य जागर: अवस्थेत्यर्थः ॥९०॥
 

 
वासनामयानां
 
उक्तमर्थं विशदयति । वाघेंद्रियैरिति ।
 
बाह्येन्द्रियँस्थूलपदार्थसेवां
 
५८
 
स्रक्चन्दनस्त्रयादि-विचित्र-रूपाम् ।
 
करोति जीवः स्वयमेतदात्मना
 
तस्मात्प्रशस्तिर्वपुषोस्य जागरे ॥११॥
 
बाह्येद्रियैः त्वग्घ्राणचक्षुरादिभिः स्रक्चन्दनस्त्र्यादिविचित्ररूपां
रूप्यंते विषयीत्रियन्ते इति रूपाणि विचित्राणि च तानि रूपाणि च, स्रक्च