This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
५७
 
अहंममाभिमानवान् मुमुक्षुः मोक्षं संपादयितुं न शक्नोतीत्यर्थः । येन मोहो

विनिर्जितः पूर्वोक्ताहंतादिः शरीरादौ परित्यक्तः स मुक्तिपदं मुक्तिमार्
गं
अर्हति स एव मुच्यत इत्यर्थः ॥८७॥
 

 
तस्मान्मोहं जहीति उपदिशति । मोहमिति ।

 
मोहं जहि महामृत्युं देहदारसुतादिषु ।
 

यं जित्वा मुनयो यान्ति तद्विष्णोः परमं पदम् ॥ ८८॥
 

 
मुनयः मननशीला: यं देहादीदौ मोहं तदात्म्याभिमानं जित्वा,

बहुकालाद्रढमूलमपि देशिकदत्तयुक्त्या श्रुत्यवष्टंभेन च सुतरां परित्यज्य,

तत् श्रुतिप्रसिद्धं विष्णोः परमं पदं, राहोश्शिर इतिवत् अभेदे षष्ठी,

व्यापकं ( परिच्छेदत्रयशून्यं) सर्वोत्कृष्टं ब्रह्मरूपं स्थानं यान्ति अभेदेन

भजन्ते, ब्रह्मैव भवन्ति मुच्यन्त इत्यर्थः । तं देहदारसुतादिषु आदिपदेन

मित्रधनादिग्रहः । तत्र मोहं भ्रान्ति तव महामृत्युं अत्यन्तं स्वस्वरूप-

प्रच्यावनेन स्वादर्शनहेतुं जहि नाशय वेदान्तार्थविचारणेनेत्यर्थः॥८८॥
 

 
अत्यन्ताशुचि-पदार्थभूयिष्ठत्वात् दूरतः परित्याज्ये सुतरामभि-

मानानर्हे स्थूले देहे तत्र जुगुप्सया हेयताबुद्धिधिं द्रढयति । त्वगित्यादिना ।
 

 
त्वङ्मांसरुधिर-स्नायुमेदो-मज्जास्थिसंकुलम् ।

पूर्णं मूत्रपुरीषाभ्यां स्थूलं निनिंद्यमिदं वपुः ॥८९ ॥

 
स्नायवः सिराः नाड्यः । तत्र अत्यन्तं जुगुप्सां जनयति मूत्र-

पुरीषाभ्यां पूर्णमिति । न कश्चित् मलमूत्रभाण्डं स्प्रष्टुमिच्छति, कुतस्तत्रा-

हंतेति भावः । अत एव निनिंद्यं कुत्सार्हं । शिष्टं स्पष्टम् ॥८९ ॥
 

 
एवं तत्र वैराग्योत्पत्तये तं निंदित्वा पूर्वारब्धं आत्मानात्मविवेचनं

नुवर्तयति । पंचीकृतेभ्य इति ।
 

 
पंचीकृतेभ्यो भूतेभ्यः स्थूलेभ्य: पूर्वकर्मणा ।

समुत्पन्नमिदं स्थूलं भोगायतनमात्मनः ॥
 

अवस्था जागरस्तस्य स्थूलार्थानुभवो यतः ॥ १० ॥