This page has been fully proofread once and needs a second look.

श्रौविवेकचूडामणिः सव्याख्यः
 
अहंकारादि-देहान्तः तस्य मोक्षणं परित्यागः अनुक्षणं सर्वदा कृत्यमस्तीति

शेषः ।
अत्यंतं स्थूलतया भासमाने अस्मिच्छरीरेअहंतायाः परित्यागे

पश्चात् किल प्राणादौ सा त्यक्तुं शक्यत इति भावः । तत्रानात्मत्वं स्फुटयति

अयं देहः परार्थ इति । कृतव्याख्यानोयमंश: मज्जास्थीत्यादिश्लोके । तस्मा-

दनेक-पदार्थसंघातरूपत्वेन अनात्मन: अमुण्ष्य पोषणे यः सज्जते स्वात्मानं

विस्मृत्य अयमेवाहमिति विशेषतोभिमन्यते तद्रक्षणे च विशेषतो यतते,

सः स्वं स्वात्मानं, अनेन स्थूलशरीरेण हन्ति हिनस्ति, अभातनिजस्वरूपं

करोतीत्यर्थः । येन निजस्वरूपभानेन मुच्यते तत्प्रतिन्धक - -स्थूलदेहाभि-

मानेन तदीयजन्ममरणादि-धर्मवन्तं स्वात्मानं मत्वा सर्वदा दुःखमनु-

भवतीति भावः ॥८५॥
 
५६
 

 
लोके तावत् नदीं तितीर्षवः नद्यांप्लवमानं दृढं दारु धृत्वा स्वयं

नद्यां तत्साहाय्येन अमज्जन्तः नदीं तरंतीति प्रसिद्धम् । न तु कदाचिदपि

तत्र प्लवमानं मकरं गृहीत्वा तितीर्षन्तीति । तथा सति तेषां नद्यां

मकरग्रस्तानां मरणं धुध्रुवमिति प्रसिद्धम् । तथा शरीरपोषणासक्तस्य

आत्मदर्शनं नैव भवति, प्रत्युत तत्राभिमानः रूढो भूत्वा संसाराम्बुधौ तं

संमज्जयतीति भावेनाह। शरीरेति ।
 

 
शरीरपोषणार्थी सन् य आत्मानं दिदृक्षते ।
 

ग्राहं दारुधिया धृत्वा नदीं तर्तुं स इच्छति ॥८६॥
 

 
शरीरस्य पोषणं अर्थयितुं शीलं अस्येति शरीरपोषणार्थी सर्वदा

तत्पोषणव्यग्र इत्यर्थः । तादृशः सन् यो नरः आत्मानं स्वस्वरूपं दिदृक्षते

साक्षात्कर्तुमिच्छति तस्य आत्मदर्शनं दारुधिया धृतग्राहस्य नदीतरणमिवा-

संभावितमित्याह ग्राहमिति । स्पष्टम् ॥८६॥
 
इति ॥
 

 
अतः मुक्त्यर्थं विवेकिना शरीरे मोहः परित्यक्तव्य इत्याह । मोह
 
इति ॥
 
मोह एव महामृत्युः मुमुक्षोर्वपुरादिषु ।
 

मोहो विनिर्जितो येन स मुक्तिपदमर्हति ॥८७ ॥
 

 
वपुरादिषु शरीर - -कलत्र - पुत्रादिषु, मोह एव अहंमम -भाव एव,

मुमुक्षोः महामृत्युः यथा मृतः किंचित्कार्यं -न कर्तुं शक्नोति एवं शरीरादिषु