This page has not been fully proofread.

श्रौविवेकचूडामणिः सव्याख्यः
 
अहंकारादि-देहान्तः तस्य मोक्षणं परित्यागः अनुक्षणं सर्वदा कृत्यमस्तीति
शेषः ।
अत्यंतं स्थूलतया भासमाने अस्मिच्छरीरेअहंतायाः परित्यागे
पश्चात् किल प्राणादौ सा त्यक्तुं शक्यत इति भावः । तत्रानात्मत्वं स्फुटयति
अयं देहः परार्थ इति । कृतव्याख्यानोयमंश: मज्जास्थीत्यादिश्लोके । तस्मा-
दनेक-पदार्थसंघातरूपत्वेन अनात्मन: अमुण्य पोषणे यः सज्जते स्वात्मानं
विस्मृत्य अयमेवाहमिति विशेषतोभिमन्यते तद्रक्षणे च विशेषतो यतते,
सः स्वं स्वात्मानं, अनेन स्थूलशरीरेण हन्ति हिनस्ति, अभातनिजस्वरूपं
करोतीत्यर्थः । येन निजस्वरूपभानेन मुच्यते तत्प्रतिवन्धक - स्थूलदेहाभि-
मानेन तदीयजन्ममरणादि-धर्मवन्तं स्वात्मानं मत्वा सर्वदा दुःखमनु-
भवतीति भावः ॥८५॥
 
५६
 
लोके तावत् नदीं तितीर्षवः नद्यांप्लवमानं दृढं दारु धृत्वा स्वयं
नद्यां तत्साहाय्येन अमज्जन्तः नदीं तरंतीति प्रसिद्धम् । न तु कदाचिदपि
तत्र प्लवमानं मकरं गृहीत्वा तितीर्षन्तीति । तथा सति तेषां नद्यां
मकरग्रस्तानां मरणं धुवमिति प्रसिद्धम् । तथा शरीरपोषणासक्तस्य
आत्मदर्शनं नैव भवति, प्रत्युत तत्राभिमानः रूढो भूत्वा संसाराम्बुधौ तं
संमज्जयतीति भावेनाह। शरीरेति ।
 
शरीरपोषणार्थी सन् य आत्मानं दिदृक्षते ।
 
ग्राहं दारुधिया धृत्वा नदीं तर्तुं स इच्छति ॥८६॥
 
शरीरस्य पोषणं अर्थयितुं शीलं अस्येति शरीरपोषणार्थी सर्वदा
तत्पोषणव्यग्र इत्यर्थः । तादृशः सन् यो नरः आत्मानं स्वस्वरूपं दिदृक्षते
साक्षात्कर्तुमिच्छति तस्य आत्मदर्शनं दारुधिया धृतग्राहस्य नदीतरणमिवा-
संभावितमित्याह ग्राहमिति । स्पष्टम् ॥८६॥
 
इति ॥
 
अतः मुक्त्यर्थं विवेकिना शरीरे मोहः परित्यक्तव्य इत्याह । मोह
 
मोह एव महामृत्युः मुमुक्षोर्वपुरादिषु ।
 
मोहो विनिर्जितो येन स मुक्तिपदमर्हति ॥८७ ॥
 
वपुरादिषु शरीर - कलत्र - पुत्रादिषु, मोह एव अहंमम भाव एव,
मुमुक्षोः महामृत्युः यथा मृतः किंचित्कार्यं न कर्तुं शक्नोति एवं शरीरादिषु