This page has not been fully proofread.


 
श्रीविवेकचूडामणिः सव्याख्यः
 
जन्तूनां जनन-

 
कस्यैव शास्त्रेधिकारात् प्रथमं नरजन्मप्राशस्त्य कथनमुखेन शरीरव्यति-

रिक्ता त्मास्तित्वं <error>तावद्धनयति </error> <fix>तावद्ध्वनयति</fix>जन्तूनां नरजन्म दुर्लभमिति ।
उक्तं च शारीरकभाष्ये 'शास्त्रीये तु व्यवहारे यद्यपि बुद्धिपूर्वकारी

नाविदित्वा आत्मनः परलोक-सम्बन्ध-मधिक्रियते' इति ।
जन्तुनां जनन-
शीलानां प्राणिनां नरजन्म मानुष्यकं दुर्लभमिति । तत्र एकेनैव बहुषु जन्मसु

प्राप्तव्येषु किल नरजन्म दुर्लभमिति वक्तुंशक्यं, शरीर-सम्बन्धस्यैव जन्म-

शब्दार्थत्वात् ।
यदा चैकस्य
अनेकशरीरयोगः तदा शरीर-व्यतिरिक्तत्वं

आत्मनः सूचितमेव। प्रसिद्धं खल्वनेकैः कुसुमैः युज्यमानं सूत्रं तेभ्योऽतिरिच्यत

इति, अनेकानि वासांसि क्रमेण युगपद्वा परिदधच्छरीरं तेभ्यो भिद्यत इति च ।

तथाच सुखहेतुशरीरप्राप्तये दुःखहेतु- शरीरनिवृत्तये च पुण्येप्रवृत्तिःपापान्नि-

वृत्तिश्च युज्यत इति, विधिनिषेधात्मक - कर्मशास्त्रे आस्तिकस्यैवाधिकारः ।

एवं ज्ञानेन सकल-कर्म-निर्हरणार्थं मोक्षशास्त्रेपि । यदि शरीरमेवात्मा

स्यात् तस्य प्रत्यक्षसिद्धत्वात् "आत्मा वा अरे द्रष्टव्यश्श्रोतव्यो मन्तव्यो

निदिध्यासितव्यः इत्यादि-दर्शन- साधन-विधानं कथमुपपद्येत ।
 

"]
 
'
शुभैराप्नोति देवत्वं निषिद्धैर्नारकीं तनुम् । उभाभ्यां पुण्यपापाभ्यां

मानुष्यं लभतेऽवशः" इति चैकस्यैव शुभाशुभ-मिश्रकर्मभि: विजातीय-

शरीरलभं दर्शयति । कथमन्यथा लोकप्रसिद्धं सुखदुःखादिवैचित्र्यमुपपद्यते ।

यदि कर्मनिरपेक्षः ईश्वर एव कांश्चित् प्राणिनः सुखिनः कांश्चिदन्यादृशांश्च

सृजेत् वैषम्य-नैर्घृण्ये भजेत । तथाचेश्वरत्वं हीयेत । तदुक्तं " वैषम्य-

नैर्घृण्ये न सापेक्षत्वात् तथाहि दर्शयति " " न कर्माविभागादिति चेन्नाना-

दित्वात् " " उपपद्यते चाप्युपलभ्यते च " <error>इतिसूत्रे :</erro><fix>इतिसुत्रैः</fix> ईश्वरस्य कर्मसापेक्षत्वं
संसारस्यानादित्वं च । धर्मभूतः संसार एव अनादिश्चेत् तदाश्रयस्य

संसारिणो अनादित्वं कैमुतिकन्यायसिद्धम् । तत् सिद्धमात्मनः शरीर-

व्यतिरिक्तत्वम् । शरीरातिरिक्ता-त्मास्तित्ववाद्येवास्तिक इति । शास्त्र -

व्यवहारनिदान - मास्तिक्यं इति जन्तूनां नरजन्म दुर्लभमित्यनेन

सूचितं । ततः पुंस्त्वं, स्त्रिया वेदेधिकाराभावात् । उपनिष-

देक-समधि-गम्यआत्मा नैव ज्ञातुं शक्यत इत्यभिप्रायः । तत्रापि त्रैवर्णिकानां

वेदाधिकार-सत्वेपि क्षत्रियवैश्ययोः राज्यपरपिालन कृष्यादिरूपाणां
 
(C
 

चित्तविक्षेप-हेतुभूतानां बाह्यव्यापाराणां सत्वादैदंपर्येण आत्मविचार:

दुर्घट इति "मुखजानामयंधर्म: वैष्णवं लिंगधारणं । बाहुजातोरु-