2023-02-24 11:56:10 by Vasant
This page has been fully proofread once and needs a second look.
५५
सत्य-
मात्रास्तदीया इत्यारभ्य एतदंतं कृतस्य विषयबन्धकत्वनिरूपणस्य
फलमाह मोक्षस्येति । यद्वा इदानीं मुमुक्षोः हेयोपादेये उपदिशति ।
मोक्षस्येति ।
मोक्षस्य कांक्षा यदि वै तवास्ति
त्यजातिदूराद् विषयान् विषं यथा ।
पीयूषवत्तोष-दयाक्षमार्जव-
प्रशान्तिदान्तीर्भज नित्यमादरात् ॥४॥
66
आदौ हेयमाह, यदि तव मोक्षस्य वै इत्यवधारणे, मोक्षस्यैवेत्यर्थः ।
कांक्षा इच्छा, अस्ति विषयान् शब्दादीन्, विषं यथा हालाहलमिव, अति-
दुरात्त्यज मनसापि मास्मार्षीरित्यर्थः । "अकुर्वन्नपि विध्युक्तं निषिद्धं
परि
परि
संहितोक्तेः । उपादेयमाह तोष: संतोष:, दया करुणा, क्षमा तितिक्षा,
आर्जवं अकुटिलचित्तता, प्रशान्ति: प्रकर्षेण शमः, दान्ति:
निग्रहः, तो
मिति गीतावचनात् शमाभावे संतोषादेरसंभवात् अत्र सर्वं शमाधीनमिति
द्योतयितुं प्रशान्तीति प्रेत्युपसर्गसहित शान्तिपदप्रयोगः । एताः नित्यं
संततं, पीयू
स्वेत्यर्थः ॥८४॥
एवं मोक्षसाधनत्वेन विषयवैराग्यं द्रढयित्वा तेष्वाशा यन्निबन्धना
तस्मिन्स्थूलशरीरे आ
तत्र सक्
अनुक्षणं यत्परिहृत्य कृत्यं अनाद्यविद्याकृतबन्धमोक्षणम् ।
देहः परार्थोय-ममुष्य पोषणे यस्सज्जते स स्वमनेन हन्ति ॥८५॥
यत् स्थूलशरीरं परिहृत्य तादात्म्याध्यासात् दूरीकृत्य, अनाद्य-
विद्याकृत