This page has not been fully proofread.

श्रोविवेकचूडामणिः सव्याख्यः
विषमविषयमार्गे गच्छतोऽनच्छबुद्धेः
प्रतिपदमभिघातो मृत्युरप्येषसिद्धः ।
हितसुजनगुरूक्त्या गच्छतः स्वस्य युक्त्या
प्रभवति फलसिद्धिः सत्यमित्येव विद्धि ॥८३ ॥
 
((
 
विषमः बहुविधविक्षेपहेतुः अत्यन्त दु:खजटिलः यः विषयः शब्दादिः
स एव मार्गः, " विषयांस्तेषु गोचरान्" इति कठश्रुतेः तत्र गच्छतः
तत एव अनच्छबुद्धे: अशुद्धमनस्कस्य, यदि शुद्धं मनः अवश्यं विचारशीलं
विषयेभ्यो निवर्तते । रजस्तमोभूयिष्ठत्वादेव विचारासमर्थ, "यथा व्याल-
गलस्थोपि भेकः दंशानपेक्षते, तथा कालाहिना ग्रस्तो लोको भोगानशाश्व-
तान्" इत्युक्तरीत्या विषयप्रवणता तस्य इति भावः । एतादृशा-
शुद्धमनस्कस्य प्रतिपदमभिघातः सर्वदापि दृढदुःखसंयोगः, एषः अनुभवसिद्धः
मृत्युरपि सिद्ध: मृत्युघटितः संसार इत्यर्थः । " मन एव मनुष्याणां कारणं
बन्धमोक्षयोः । बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम् " इति वचनस्य
पूर्वमुदाहृतत्वात् । स्मर्यंते हि गीतासु " ध्यायतो विषयान् पुंसः संगस्तेषूप-
जायते । संगात्संजायते कामः कामात्क्रोधोभिजायते । क्रोधाद्भवति
संमोहः संमोहात् स्मृतिविभ्रमः । स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्
प्रणश्यति" इति । तत्र कथितः प्रणाशः णश अदर्शने इति धातुना प्रतीय-
मानः, स्वस्वरूपासाक्षात्कार एव वा अत्र मृत्युपदार्थः । कामस्यैव
कुतश्चित् अभिह्तस्य क्रोधात्मना परिणममानत्वात् तत्र उक्तः कामाभिघात
एव वा अत्रापि प्रतिपदमभिघात इत्यत्रार्थः । लोके यथा इच्छा तथा
विषयानुभवस्य सुदुर्लभत्वात् जातायां इच्छायां अभिहन्यमानायां
अविचारयितुः पुरुषस्य क्रोधादिक्रमेण प्रणाश एवेति भावः । एवं अविरक्तस्य
जायमानं फलमुक्त्वा विरक्तस्य तदाह हितसुजन गुरूक्त्येत्यादिना ।
हिताः श्रेयस्कामिनः अत एव सुजनाः सत्पुरुषा: मित्रादयः तोषां गुरोश्च
उक्त्या, गुरोस्तु हितत्वं सुजनत्वं च सिद्धमेव । गुरुलाभपर्यन्तं सुजनोक्तिः,
ततः गुरूक्तिरिति विभागः । यद्वा हिता सर्वदा श्रेयोहेतुभूता सुजनानां
गुरोश्च या उक्तिः तया, तद्दत्तया स्वस्य युक्त्या तदनुसाहापोहेन च
गच्छतः "पण्डितो मेधावी गंधारानेवोपसंपद्येत, एवमेवेहाचार्यवान्-
पुरुषो वेद " इति श्रुतेरिति भावः । श्रेयोमार्ग एव गच्छतः फलसिद्धिः
 
,
 
५४