This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
५३
 
आपात - वैराग्यवतो मुमुक्षून् भवाब्धिपारं प्रतियातुमुद्यतान् ।

आशाग्रहो मज्जयतेन्तराले निगृह्य कण्ठे विनिवर्त्य वेगात्
 
॥८१॥
 

 
आपातवैराग्यवतः दुःखानुभवादिकालेषु धिक् संसार इति वैराग्य -

वतः, सार्वदिकवैराग्यशून्यानिति यावत् । भवाब्धिपारं संसारसागरान्तं

ज्ञानं, प्रतियातुं प्राप्तुं, उद्यतान् उद्युक्तान्, तत्र हेतुमाह मुमुक्षूनिति ।

मोक्षेच्छायाः सत्वात् संसारांबुधिधिं तर्तुं उद्यता इति तादृशान् पुरुषान्

आशैव ग्रहः महानकःक्रः , अन्तराले समुद्रमध्ये कण्टेठे निगृह्य नितरां गृहीत्वा

वेगाद्विनिवर्त्य भवाब्धिपारगमनाद्विनिवर्त्य मज्जयते मग्नान् करोति

संसारसमुद्रमग्नान् पुनः कर्मादिकरणेषु तन् व्यापारयतीति भावः ।

यस्तावत् अत्यंतं विषयेभ्यो विरक्तः शमादिगुणगणमण्डितः स सद्गुरुं

उपसद्य तन्मुखतः सम्यगात्मानं विदित्वा मुच्यते संसारात्, अयं तावत्

आपातवैराग्यवान् दृढशान्त्यादिहीनः तथा -प्रयतमानोपि मध्ये आशया

पीडित: पुरुषार्थाद्भ्रश्यते । ज्ञानार्हो न भवतीति भावः ॥८१ ॥
 

 
पूर्वोक्तमर्थं व्यतिरेकमुखेनाह । विषयाख्येति ।

 
विषयाख्य -ग्रहो येन सुविरक्त्यसिना हतः ।

स गच्छति भवाम्भोधेः पारं प्रत्यूहवजितः ॥८२ ॥
 
"1
 

 
विषयाख्यग्रहः विषयनामकनक: येन पुरुषेण, सुविरक्त्यसिना

सुष्ठु विरक्तिः दृढतरतीब्व्रवैराग्यं सैवासिः खड्गः, तेन हतः नाशितः, सः

पुमान् प्रत्यूहवर्जितः संसारसागरोत्तरणे विघ्नशून्य:, भवाम्भोधे: पारं

संसारसमुद्रस्य जन्ममरणादिकल्लोलतरंगितस्य पारं अन्तं ब्रह्मेति यावत्

"
सोध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् " इति श्रुतेः । गच्छति

प्राप्नोति, ब्रह्म साक्षात्कृत्य मुच्यत इत्यर्थः ॥८२॥
 

 
"यस्त्वविज्ञानवान्भवति अमनस्कः सदाऽशुचिः । न स तत्पदमाप्नोति

संसारं चाधिगच्छति। यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः।

स तु तत्पदमाप्नोति यस्माद् भूयो न जायते " इति कठोपनिषत्प्रतिपादित -

मर्थं पूर्वोक्तश्लोकद्वयसारं क्रोडीकृत्य उपदिशति । विषमेति ।