This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
विषयः रूपादिः कृष्णसर्पविषादपि दोषेण तीव्रः तीक्ष्णः, कृष्णसर्पविषे

मारकत्वरूपदोषः यावान् तदपेक्षया तीक्ष्णो दोषः विषये । तत्र हेतुमाह

विषं निहंति भोक्तारमिति । कृष्णसर्पेण दष्टस्य पुरुषस्य नाडीद्वारा

जिह्वासंबद्धं विषं भवतीति स भोक्तेत्युच्यते । अत एव पादादौ सर्पेण

दष्टा अपि तत्र बलवद्द्धा रज्वादिना, न म्रियंते तद्विषस्य नाडीद्वारा

जिह्वासंबन्धाभावात् । एवं भोक्तारं निहन्ति विषं तस्यासत्वमापादयति ।

अयं विषयस्तु चक्षुषाद्रष्टारमपि निहन्ति, प्रसिद्धं खलु लोके सुंदरं रूपादिकं

दृष्ट्वा कलहायमाना नश्यन्ति जनाः इति । यद्वा कलहाद्यभावेपि स्वयं

तेन विषयेण दूरमाकृष्टचित्तः स्वात्मानं द्रष्टुं न शक्नोतीति स्वाभानापादक-

व्यापारवान् नियमेन भवतीति भावः । तथाच निहन्तीत्यस्य असत्वा-

पादकव्यापारः, अभानापादकव्यापारो वा अर्थः । यथायोग्यमर्थः
 
५२
 

स्वीकरणीयः । तत्र असत्वापादकव्यापारस्य अभानापादकत्वं सिद्धमेव ।
 

द्वितीयस्य तु असत्वापादकत्वं न संभवतीति । वस्तुतस्तु विषयाकृष्ट-

चित्तस्य पुरुषस्य सत्वमपि पुरुषार्थोपयोगाभावात् असत्वमिव भवतीत्यपि

सुवचम् ॥७९॥
 
अतः
 

 
एवमत्यंतानर्थंकरेपि विषये विचाराभावात्पुरुषः आशां ध्नाति,

तत्रत्यदोषं न परिगणयति मौढ्यात् ततः पुरुषार्थाद् भ्रश्यते ।
अतः
मुमुक्षुणा सर्वथापि तदाशा त्यक्तव्या । अन्यथा षडपि शास्त्राणि अर्थतो

जानतोपि मोक्षो दुर्लभ इत्याह । विषयाशेत्यादिना ।
 

 
विषयाशा - महापाशाद्यो विमुक्तः सुदुस्त्यजात् ।
 

स एव कल्पते मुक्त्यै नान्यः षट्छास्त्रवेद्यपि ॥ ८० ॥
 
:
 

 
यः पुरुषः सुदुस्त्यजात् चिरकालादभ्यस्तत्वेन दृढविचारमन्तरा

त्
यजात् त्यक्तुमशक्यात्, विषयाशामहापाशात् विषयाशैव महापाशः

बन्धकत्वात् तस्माद्विमुक्तः विशेषेण मुक्तः सुतरां तत्संबन्धरहित

। स एव पुरुष: मुक्त्यै कल्पते समर्थो भवति । अन्य: तदाशापाश-

ट्छास्त्रवेद्यपि न मुक्त्यै समर्थो भवतीत्यर्थः ॥ ८०॥
 

 
विषयेषु तीव्र वैराग्याभावे अनर्थमाह । आपातेति ।