2023-02-24 10:18:30 by Vasant
This page has been fully proofread once and needs a second look.
५१
किं पुन: पंचापि कामयमानस्येति सदृष्टान्तमाह हेयत्वसिद्धये ।
शब्दादिभिरिति ।
शब्दादिभिः पंचभिरेव पंच पंचत्वमापुः स्वगुणेन बद्धाः ।
कुरंग-मातंग-पतंग-मीन-भृंगा नरः पंचभिरंचितः किम् ॥७८॥
कुरंग: हरिणः, मातंग: गज:, पतंग: शलभः, मीन: मत्स्य:, भृंगः
भ्रमरः एते पंच स्वगुणेन स्वस्वसक्तिविषयेण गुणेन शब्दादीनां गन्धान्तानां
पंचानां मध्ये क्रमेण एकैकेनैव बद्धास्सन्तः पंचत्वं मरणमापुः । एवं
एकैकस्यापि मरणपर्यन्तबन्धप्रयोजकत्वे एतैः पंचभिरिपि अंचितः स्वकीय
सक्त्याश्रयत्वेन विशिष्ट
यथा लोके हरिणं जिघृक्षवः वेणुगानादिमधुरशब्दासक्तं तं चपलं शीघ्रं
बहुदूरं धावन्तमपि निश्चलीकृत्य तच्छब्दश्रवणासक्तं विस्मृतात्मानं
गृण्हंतीति शब्द एक एव हरिणस्य
स्वच्छन्दं विहारी दुर्ग्रहः महानपि मातंग: स्पर्शसुख-लोलुपः तज्जिघृक्षुभिः
वशाद्वारा गृह्यते इति त्वगिंद्रियतृप्तिहेतुः स्पर्श एक एव गजस्य बन्धको
निर्वृत्तः । एवं पतंगः प्रकाशमाने दीपे भास्वररूपदर्शनेन भक्ष्यबुध्या तदीयं
दाहात्म्यं अजानन् तत्र पतित्वा म्रियत इति रूपस्य मृत्युहेतुत्वं प्रसिद्धम् ।
एवं रसगृध्नुः झषः दाशप्रसारितं जालं प्रविश्य म्रियत इति प्रथितम् । एवं
घ्राणतर्पणलालसः भ्रमरः तत्तत्पुष्पाणीव चंपक-सुमं आघ्राय तद्गंध-
सेवनेन पंचत्वमाप्नोतीति च । एवं शब्दादीनां मध्ये एकैकमपि सेव्यमानं
मराणान्तानर्थप्रयोजकं । तत्रापि तिरश्चां पापाभावात् तदानींतन-
शरीरस्य परमनर्थः सम्भवति । शब्दादीनां पंचानामपि विषयाणां सेवनाय
विहितमनाचरन् पापमप्याचरन् नरः लोकद्वयादपि भ्रश्यत इति
भावः ॥७८॥
विषयानुभव: मृत्युहेतुरिति तिष्ठतु । दर्शनमात्रादपि मारयन्विषयः
कृष्णसर्पविषादपि अतिरिच्यत इत्याह । दोषेणेति ।
दोषेण तीव्रो विषय: कृष्णसर्पविषादपि ।
विषं निहन्ति भोक्तारं द्रष्टारं चक्षुषाप्ययम् ॥७९॥