2023-02-20 14:42:39 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
५१
शब्दादीनां मध्ये एकैकं सेवमानस्यापि मृत्युः बन्धः दृष्टः ।
किं पुन: पंचापि कामयमानस्येति सदृष्टान्तमाह हेयत्वसिद्धये ।
शब्दादिभिरिति ।
शब्दादिभिः पंचभिरेव पंच पंचत्वमापुः स्वगुणेन बद्धाः ।
कुरंग-मातंग-पतंग-मीन-भृंगा नरः पंचभिरंचितः किम् ॥७८॥
कुरंग: हरिणः, मातंग: गज:, पतंग: शलभः, मीन: मत्स्य:, भृंगः
भ्रमरः एते पंच स्वगुणेन स्वस्वसक्तिविषयेण गुणेन शब्दादीनां गन्धान्तानां
पंचानां मध्ये क्रमेण एकैकेनैव बद्धास्सन्तः पंचत्वं मरणमापुः । एवं
एकैकस्यापि मरणपर्यन्तबन्धप्रयोजकत्वे एतैः पंचभिरिपि अंचितः स्वकीय
सक्त्याश्रयत्वेन विशिष्ट : नरः किं मृत्युं प्राप्नोतीति वक्तव्यमित्यर्थः ।
यथा लोके हरिणं जिघृक्षवः वेणुगानादिमधुरशब्दासक्तं तं चपलं शीघ्रं
बहुदूरं धावन्तमपि निश्चलीकृत्य तच्छब्दश्रवणासक्तं विस्मृतात्मानं
गृहंतीति शब्द एक एव हरिणस्य वन्धक इति प्रसिद्धम् । एवं वनमध्ये
स्वच्छन्दं विहारी दुर्ग्रहः महानपि मातंग: स्पर्शसुख-लोलुपः तज्जिघृक्षुभिः
वशाद्वारा गृह्यते इति त्वगिंद्रियतृप्तिहेतुः स्पर्श एक एव गजस्य बन्धको
निर्वृत्तः । एवं पतंगः प्रकाशमाने दीपे भास्वररूपदर्शनेन भक्ष्यबुध्या तदीयं
दाहात्म्यं अजानन् तत्र पतित्वा म्रियत इति रूपस्य मृत्युहेतुत्वं प्रसिद्धम् ।
एवं रसगृध्नुः झषः दाशप्रसारितं जालं प्रविश्य म्रियत इति प्रथितम् । एवं
घ्राणतर्पणलालसः भ्रमरः तत्तत्पुष्पाणीव चंपक-सुमं आघ्राय तद्गंध-
सेवनेन पंचत्वमाप्नोतीति च । एवं शब्दादीनां मध्ये एकैकमपि सेव्यमानं
मराणान्तानर्थप्रयोजकं । तत्रापि तिरश्चां पापाभावात् तदानींतन-
शरीरस्य परमनर्थः सम्भवति । शब्दादीनां पंचानामपि विषयाणां सेवनाय
विहितमनाचरन् पापमप्याचरन् नरः लोकद्वयादपि भ्रश्यत इति
भावः ॥७८॥
विषयानुभव: मृत्युहेतुरिति तिष्ठतु । दर्शनमात्रादपि मारयन्विषयः
कृष्णसर्पविषादपि अतिरिच्यत इत्याह । दोषेणेति ।
दोषेण तीव्रो विषय: कृष्णसर्पविषादपि ।
विषं निहन्ति भोक्तारं द्रष्टारं चक्षुषाप्ययम् ॥७९॥