This page has been fully proofread once and needs a second look.

५०
 
श्रीविवेकचूडामणिः सव्याख्यः
 
मात्रास्तदीया विषया भवन्ति शब्दादयः पंच सुखाय
 
भोक्तुः ॥७६॥
 

 
मीयन्ते विषयीक्रियन्ते भुज्यन्त इति वा मात्राः, तदीयाः आकाशादि-

भूतसंबन्धिन्यः, शब्दादय: क्रमेण शब्दस्पर्श-रूपरस-गंधा: पंच विषयाः,

विशेषेण सिन्वन्तीति विषयाः, विषिञ्धातोः विपूर्वकात् बन्धनकर्मणः विषय-

शब्दस्य निष्पत्तेः । भोक्तु: संसारिण: जीवस्य, सुखाय सुखाभासाय

भवन्ति । शब्दादयः शास्त्रे तत्र तत्र पंचतन्मात्रा इति व्यवह्रियन्ते इति

मात्रास्तदीया इति कथितम् तत्तद्ग्रन्थसंवादाय ॥७६॥
 

 
इदानीं तेषां बन्धकत्वं विशदयति । य एष्विति ।
 

 
य एषु मूढा विषयेषु बद्धा रागोरुपाशेन सुदुर्दमेन ।

आयान्ति निर्यान्त्यध ऊर्ध्वमुच्चैः स्वकर्मदूतेन जवेन नीताः
 
॥७७॥
 

 
ये मूढा विवेकशून्या:, एषु विषयेषु शब्दादिषु पंचसु, सुदुर्दमेन

सुष्टु दुःखेन दमयितुं शक्येन दुर्निरसेन, रागोरुपाशेन उरुः दृढः पाशः

न्धहेतुरज्वादिः रागएव उरुपाशः तत्रासक्तिरूपेणदृढपाशेन बद्धाः, स्तंभेषु

पश्वादय इव, तत्र अत्यन्तकामविशिष्टा इति यावत् । यथा स्तंभद्धाः

पशवः स्तंभं विहाय गन्तुं न पारयन्ते, एवं विषय रागिणः विषयांस्त्यक्तुं

न शक्नुवन्तीति तत्रैवाशया श्रेयौमार्गाद् भ्रश्यन्त इत्याह, आयान्ति निर्यान्त्यध

ऊर्ध्वमुच्चैः-स्वकर्मदूतेन जवेननीताः, स्वेषां कर्म धर्माधर्मरूपं तदेव ऊर्ध्वा-

धोगमनहेतुत्वा-द्व्रदूतवद्वर्तते । यथा न्यायस्थानादौ कश्चिद्दूतः विचार्या -

नूर्ध्वमधश्च नयति तद्वत् । तत्रापि शब्दादिकं सुखं जनयतीति बध्या

तत्संपत्तये पुण्यार्जनं करोति, तदा दिव्यशब्दादिकं अनुभवितुं तदीयं पुण्यं

कर्म तमुच्चै: ऊर्ध्वं नयति स्वर्गादिकं प्रापयति । तत्रापि क्षीणे पुण्ये अधः

आगमनं अस्त्येव । अधर्मे पुनः किं वक्तव्यम् सर्वदाधोगमनमेवेति ।

उच्चैरूर्ध्वं, आयान्ति जन्मान्तरकृत-सुकृतवशात् मानुष्यादिकं संपादयन्ति ।

पुनः रागे अधो निर्यान्ति । विषयेषु रागवतः कर्तव्यकार्य-विस्मरण-

संभवात् निस्तारो न भवतीति भावः ॥७७॥