2023-02-24 09:44:15 by Vasant
This page has been fully proofread once and needs a second look.
श्रीविवेकचूडामणिः सव्याख्यः
मस्तकं शरीरमिति प्रथितं प्रसिद्धम् शरीरं, अनेकविधदोषाश्रयत्वेपि
अतिप्रेमास्पदत्वेन मोहास्पदं आत्मत्व
रीर्यते । अस्य अनेकपदार्थ
वर्तमानानां गृहादीनां यथा स्वाम्यर्थत्वं, एवं परार्थत्वमिति ज्ञापयितुं
मज्जास्थीत्याद्युक्तम् । एतेन आत्मभिन्नत्वं उक्तप्रायम् । आत्मन एव
स्वामित्वात् तदर्थत्वाच्छरीरस्य ॥७४
अनित्यत्वादपि नित्यात्मरूपत्वं तस्य नास्तीति वक्तुम् तस्य
कारणान्याह । नभइत्यादिना ।
नभोनभस्वद्दहनांबुभूमय: सूक्ष्माणि भूतानि भवन्ति तानि
परस्परांशैमिलिता न भूत्वा स्थूलानि च स्थूलशरीरहेतवः ॥
नभश्च नभस्वांश्च दहनश्च अम्बु च भूमिश्च नभोनभस्वद्दहनांबु -
भूमयः । नभः गंगनं नभस्वान् वायुः, दहनोग्निः, अंबु जलं, भूमिः पृथ्वी,
इदं भूतपंचकं जायमानं सूक्ष्मं जायते, पश्चात् स्रष्ट्रया देवतया तासां
त्रिवृतं त्रिवृतं एकैकां करवाणीति संकल्पवशात् एकैकं भूतं पंचीक्रियते ।
तैत्तिरीयकश्रुत्यनुसारेण आकाशवाय्वोः छान्दोग्ये तेजसः प्रथममुपसंहर्तव्य-
त्वात् त्रिवृत्करणस्य पंचीकरणोपलक्षणार्थत्वात् । तत्प्रकारस्तु " पंचानां
भूतानां एकैकं द्विधा विभज्य स्वार्धभागं विहाय अर्धभागं चतुर्धा विभज्य
इतरेषु योजिते पंचीकरणं भवतीति" भाष्यकारवाक्यानुसारेण ज्ञातव्यः ।
अयमर्थः श्लोकेन संगृहीतः पंचदश्यां विद्यारण्यगुरुचर
चैकैकं चतुर्धा प्रथमं पुनः । स्वस्वेतरद्वितीयांशैः योजनात् पंच पंच ते
इति । तथाच स्थूलेषु भूतेषु प्रत्येकं स्वीयोर्धभागः इतरस्य भूतस्य अष्टमो
भागः । एवं परस्परांशैर्मिलितानि सं
शब्द-
"
भूतप्रसंगात् तद्धर्मां
निरूपयति । मात्रा इति ।