2023-02-20 14:42:38 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
प्रयोज्यत्वं विधेये भासते " इति लोकसिद्धत्वात् विद्वद्विशेषणभूत विद्या-
प्रयोज्यत्वस्य निर्वाणसुखे भातत्वेन तस्याश्च विद्याया आत्मानात्मविवेचन-
जन्यत्वेन तदादौ विशदयति । यद्बोद्धव्यमिति ।
४८
योद्धव्यं तवेदानींमात्मानात्म-विवेचनम् ।
तदुच्यते मया सम्यक्छ्रुत्वात्मन्यवधारय ॥७३॥
एतेन "कोसावनात्मा परम: क आत्मा" इति प्रश्नोप्युत्तरितो
भवति । तव इदानीं मोक्षहेतु ज्ञानबोधात्प्राक् तद्धेतुत्वेन आत्मानात्म-
विवेचनं अयमात्मा अयमनात्मा इतिभेदज्ञानानुकूलव्यापारः बोद्धव्यं
ज्ञातव्यः, तत्तस्मात्कारणात् मया सम्यक्स उच्यते । तं श्रुत्वा आत्मनि
मनसि, अवधारय निश्चिनुहीत्यर्थः ॥७३॥
तत्र अनात्मद्वारैव आत्मनः ज्ञातव्यत्वेन अनात्मनः स्थूलत्वेन प्रथमं
ज्ञातुं शक्यत्वेन तस्मिंश्च ज्ञाते सूक्ष्मस्याप्यात्मनः ज्ञानं सुलभं भवतीति
प्रथमतोनात्मनो निरूपयति "अथ ते संप्रवक्ष्यामि " इत्यंतं । तत्रादौ सकल-
बुद्धिगम्यं स्थूलशरीरं निरूपयति अहंतया विस्पष्ट व्यवहारगम्यत्वात् ।
मज्जेत्यादिना ।
मज्जास्थिमेदःपल-रक्तचर्म-त्वगाह्वयैर्धातुभिरेभिरन्वितम् ।
पादोरुवक्षो-भुजपृष्ठ-मस्तकै-रंगरुपांगै- रुपयुक्तमेतत् ॥७४॥
अहं ममेति प्रथितं शरीरं मोहास्पदं स्थूलमितीर्यते बुधैः ॥
अशितस्य स्थूलमध्यम- सूक्ष्मात्मना परिणममानस्य इति सर्वत्र
ज्ञेयम् । तेजसो घृतादे: मध्यमो भागः मज्जा, तस्य स्थविष्ठो भागः अस्थि,
तस्य पूर्वपरिणामः मेदः, पलं मांस, अशितस्य अन्नस्य मध्यमो भागः, रक्त
लोहितं, पीतानां अपां मध्यमो भाग: चर्म स्थूलावरणं, त्वक् सूक्ष्मावरणं,
आन्तरान्धातून् नाड्यादींश्च सप्तावरणानि आवृण्वन्ति । तत्र अन्तर्बहि-
र्भावेन स्थूलसूक्ष्मविभागो ज्ञेयः । मज्जेत्यादिः येषां आह्वयः धातूनां तैः
सप्तभिः धातुभिः अन्वितं युक्तं । षडंगान्याह पादेत्यादिना स्पष्टम् ।
पादोरुवक्षोभुजपृष्ठ-मस्तकैरंगैः, इदं हस्तस्याप्युपलक्षणम् । उपांगै:गुल्फ-
जानुजंघादिभिः उपयुक्तं सहितं, एतत् प्रत्यक्षसिद्धम्। अहं गच्छामि
1