This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 

 
ततः
 
}
 

 
वस्थारूप-शमादेः संभवात् । ततश्शमश्च उक्तलक्षणः । चशब्द: उक्त-

समुच्चायकः । अत्र सर्वेषामपि वैराग्यादीनां ज्ञानकालेप्यावश्यकत्वात्

अन्तरंगत्वात् पूर्वापरभावसत्वेपि कुलालपितृवत् अन्यथासिद्धिशंका न

कार्या अतः चशब्देन अपिशब्देन च समुच्चयः कथ्यते । तथा दमः तितिक्षा

प्रसक्ताखिलकर्मणां वर्णाश्रमविहितत्वेन प्रसक्तानां प्राप्तानां अखिलानां

सर्वेषां कर्मणां वैराग्योत्पत्तिपर्यन्तं अनुष्ठेयत्वात्, उत्पन्ने च तीव्रवैराग्ये

भृशं न्यासः, स्वरूपतोपि परित्यागः, पूर्वं चित्तशुद्ध्यपरपर्यायवैराग्यार्थं

फलमनभिसंधाय ईश्वरार्पणबुध्या कर्मणामनुष्ठानं, इदानीं फलस्य निष्पन्न -

त्वात् सुतरां तेषां परित्याग इति भावः । ततः सर्वकर्म-संन्यासानन्तरं,

श्रुतिः अर्थतः गुरुमुखात् वेदान्तवाक्यश्रवणं, वेदान्तवाक्यार्थनिर्णयानुकूल-

व्यापारः, तन्मननं श्रुतार्थस्य दार्याय उपपत्तिभिश्चिन्तनं ।

असम्भावना-संशयभावनयोः श्रवणमननाभ्यां निरस्तयोः, सतत्वध्यानं

परमार्थतत्वस्य ध्यानं तदपि चिरं कर्तव्यं, अनात्मस्वात्मत्व-वासनायाः

अनादिकालप्रवृत्ताया निरासार्थं, चिरं क्रियमाणमपि यदि विच्छिद्य विच्छिद्य

क्रियेत विच्छेदकालिक-वृत्तिभिः आत्मवृत्तेरभिभूयमानत्वात् निदिध्यासन-

मेव न सिध्येत्, अतः नित्यनिरंतरमित्युक्तं । तेन "स तु दीर्घकाल-

नैरंतर्य-सत्कारासेवितो दृढभूमिः " इति योगसूत्रोक्तरीत्या दिवसैर्वा

मासैर्वा निदिध्यासनं सिध्यतीति न वांछेत् । तदा विद्यमानाश्चत्वार एव

वेदा: तानध्येतुं गतस्य माणवकस्य पंच दिवसा अतीताः नाद्याप्यसौ

समागत इति मूढवचनानुसार्ययं ध्याता स्यात् । अपितु संवत्सरैः जन्मभिर्वा

आदरपूर्वकं सर्वदा सेवितव्यमिति चिरं, नित्यनिरंतरं इति विशेषणं

'अनेकजन्मसंसिद्धस्ततो याति परां गति " इति स्मृतेः । नित्यं अविच्छेदेन

बहुकालपर्यन्तं निदिध्यासनं सिध्यति चेत् इहैव जन्मनि ततः परिपक्वान्निदि-

ध्यासनात् अविकल्पं निर्विकल्पक-समाधि, परं सविकल्पकात्परं उत्कृष्टं

एत्य प्राप्य, विद्वान् आत्मसाक्षात्कारवान्, निर्वाणसुखं मुक्तिसौख्यं,

समृच्छति निरर्गलमनुभवतीत्यर्थः ॥ ७२ ॥
 

 
.66
 

 
४७
 

 
अस्मिन्नेव जन्मनि मोक्षं प्राप्तुं वक्तव्यं संग्रहेणोक्त्वा, विद्वानिव

निर्वाणसुखं समृच्छतीत्युक्त्या धनी सुखीत्यादौ यथा धनप्रयोज्यत्वं सुखे

भासते 'उद्देश्यविधेयभावस्थले असति बाधके उद्देश्यतावच्छेदक-

111