This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणः सव्याख्यः
 
विषयान्तरमनस्संचाररहितः, श्रद्धया शृणुष्व । एतच्छ्रवणात् यथाविधि

मदुक्तवाक्यश्रवणात् सद्यः श्रवणसमनन्तरमेव, आत्मानं साक्षात्कृत्य भव-

बन्धात्

संसारबन्धात् कर्तुत्वभोक्तृत्व-जन्मजरामरणादि-रूपबन्धा-

द्विमोक्ष्यसे नितरां मुच्यस इत्यर्थः ॥ ७० ॥
 
४६
 

 
इदानीं तदीयप्रश्नानुसारेण तेन जिज्ञासितमर्थं विवक्षुः प्रथमतः कथं

विमोक्ष इत्यस्य प्रश्नस्योत्तरमाह । ननु " को नाम बन्धः कथमेष आगतः,

कथं प्रतिष्ठास्य " इति प्रथमतः कृतप्रश्नत्रयस्य उत्तरमनुक्त्वा तुरीयस्य

कथं विमोक्ष इत्यस्य उत्तरकथनमनुचितमिति चेन्न, नह्यत्यंतमग्निना

दह्यमाने गृहे क्षिप्रं जलसेकादिना अग्निशान्तिमकृत्वा कुत्राग्निः पतितः,

कथं पतितः, इति विचारणेन कालयापनं युक्तं तथासति निरवशेषं

गृहस्य दह्यमानत्वात् । तथा सर्वैरप्यज्ञानिभिः सांसारिकबन्धः अनुभूयत

एव तीव्र:, तन्निरासे सहसा यत्न आस्थेयः इत्यभिप्रायेण ज्ञातव्यांशस्य

मध्ये " अनन्तशास्त्रं बहु वेदितव्यं अल्पश्च कालो हवश्च विघ्नाः ।

यत्सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्बुमिश्रम्" इत्यभियुक्तोक्त्या

सारभूतमंशं गुरुरादावाह मोक्षस्येत्यादिना, क्षिप्रं मोक्षहेतुं विज्ञाय

तल्लाभेन सहसा बन्धान्मुक्तः नित्यानन्दमनुभवत्वित्यभिप्रायेण । किंच

आत्मानात्मज्ञानं विना न्धस्वरूपस्य वक्ष्यमाणस्य ज्ञातुमशक्यत्वाच्च,

तत्सर्व पश्चाद्वक्ष्यामीति -धिया च प्रथमं कथं विमोक्षइत्यस्य उत्तरमाह ।

मोक्षस्येत्यादिना ।
 
"
 

 
मोक्षस्य हेतुः प्रथमो निगद्यते वैराग्यमत्यंतमनित्य-वस्तुषु ।

ततश्शमश्चापि दमस्तितिक्षा न्यासः प्रसक्ताखिलकर्मणां
 
भृशम् ॥७१॥
 

 
स्फुटं ।
 

 
ततश्श्रुतिस्तन्मननं सतत्वध्यानं चिरं नित्यनिरंतरं मुनेः ।

ततोऽविकल्पं परमेत्य विद्वान् इहैव निर्वाणसुखं समृच्छति
 
॥७२॥
 

 
अनित्यवस्तुषु देहादिब्रह्मपर्यन्तेषु अत्यन्तं वैराग्यं मोक्षस्य प्रथमो

हेतुर्निंगद्यते, बहुतरविक्षेप हेतुभूताशाशून्यस्यैव मनसः स्वलक्ष्ये नियता-