2023-02-21 15:01:34 by Vasant
This page has not been fully proofread.
श्रीः ॐ श्रीः
॥ श्रीसच्चिदानन्द-शिवाभिनव-नृसिंह-भारती-स्वामि-चरणारविन्दाभ्यां नमः ॥
श्रीविवेकचूडामणिः सव्याख्यः
सर्व-वेदान्त- सिद्धान्त-गोचरं तमगोचरम् ।
गोविन्दं परमानन्दं सद्गुरुं प्रणतोस्म्यहम् ॥१॥
जन्तूनां नरजन्म दुर्लभ-मतः पुंस्त्वं ततो विप्रता,
तस्माद्वैदिक-धर्ममार्ग-परता विद्वत्व-मस्मात्परम् ।
आत्मानात्म-विवेचनं स्वनुभवो ब्रह्मात्मना संस्थिति,
<error>र्मुक्तिनों</error><fix>मुक्तिर्नो</fix> शतकोटि-जन्मसु कृतैः <error>पुण्यविना</error> <fix>पुण्यैर्विना</fix>लभ्यते ॥२॥
टे-
संसार-सागरनिमग्न-जनोद्दिधीर्षुः
योवातरच्छिव-नृसिंह-गुरुच्छलेन ।
जाड्यान्धकारहरणं करुणासमुद्रं
तं दक्षिणास्यमनिशं हृदिभावयामि ॥
ज्ञानस्वरूपे वाग्देवि भगवत्पादपूजिते ।
चूडामणिं विवेकादिं व्याकुरुष्व मुखान्मम ॥
प्रसन्नानां गभीराणां वचसां देशिकेशितुः ।
भावस्त्वत्कृपया चित्ते भासतां मम शारदे ॥
रत्नगर्भ - गणेशान विघ्नध्वान्त विभाकर ।
निर्विघ्नं पूरयस्वेमां व्याख्यां कारुण्य-शेवधे ॥
चन्द्रमौळीश्वर विभो ब्रह्मविद्या समाश्रित ।
स्वानुभूतिं प्रयच्छाशु चिन्मुद्रा-विलसत्कर ॥
भगवद्गीतासु 'अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनगतासुंश्च नानुशोचन्ति पण्डिताः' इतिश्लोकवत् विवेक-चूडामणि-
प्रकरणप्रतिपाद्य-कृत्स्नार्थं- संग्राहकोयं श्लोक: जन्तूनामित्यादिः ॥ आस्ति