This page has not been fully proofread.

श्रीः ॐ श्रीः
 

 
॥ श्रीसच्चिदानन्द-शिवाभिनव-नृसिंह - -भारती-स्वामि-चरणारविन्दाभ्यां नमः ॥
 

 
श्रीविवेकचूडामणिः सव्याख्यः
 

 
सर्व-वेदान्त- सिद्धान्त-गोचरं तमगोचरम् ।

गोविन्दं परमानन्दं सद्गुरुं प्रणतोस्म्यहम् ॥१॥

जन्तूनां नरजन्म दुर्लभ-मतः पुंस्त्वं ततो विप्रता,

तस्माद्वैदिक-धर्ममार्ग-परता विद्वत्व-मस्मात्परम् ।

आत्मानात्म- विवेचनं स्वनुभवो ब्रह्मात्मना संस्थिति,

<error>
र्मुक्तिनों</error><fix>मुक्तिर्नो</fix> शतकोटि -जन्मसु कृतैः <error>पुण्यविना </error> <fix>पुण्यैर्विना</fix>लभ्यते ॥२॥

टे-

संसार-सागरनिमग्न-जनोद्दिधीर्षुः

योवातरच्छिव-नृसिंह-गुरुच्छलेन ।

जाड्यान्धकारहरणं करुणासमुद्रं
 

तं दक्षिणास्यमनिशं हृदिभावयामि ॥

 
ज्ञानस्वरूपे वाग्देवि भगवत्पादपूजिते ।

चूडामणिणिं विवेकादिदिं व्याकुरुष्व मुखान्मम ॥

प्रसन्नानां गभीराणां वचसां देशिकेशितुः ।

भावस्त्वत्कृपया चित्ते भासतां मम शारदे ॥

 
रत्नगर्भ - गणेशान विघ्नध्वान्त विभाकर ।

निर्विघ्नं पूरयस्वेमां व्याख्यां कारुण्य-शेवधे ॥

चन्द्रमौळीश्वर विभो ब्रह्मविद्या समाश्रित ।

स्वानुभूतितिं प्रयच्छाशु चिन्मुद्रा -विलसत्कर ॥
 

 
भगवद्गीतासु 'अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।

गतासूनगतासुंश्च नानुशोचन्ति पण्डिताः' इतिश्लोकवत् विवेक-चूडामणि-

प्रकरणप्रतिपाद्य-कृत्स्नार्थं- संग्राहकोयं श्लोक: जन्तूनामित्यादिः ॥ आस्ति