This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
एवं तीव्रमुमुक्षावन्तं शिष्यं प्रशस्य तदीय प्रश्नं श्लाघते ।

यस्त्वयेति ।
 
४५
 

 
यस्त्वयाद्य कृतः प्रश्नो वरीयान् शास्त्रसम्मतः ।

सूत्रप्रायो निगूढार्थो ज्ञातव्यश्च मुमुक्षुभिः ॥६९॥

 
न केवलं तीव्रमुमुक्षया उत्तमाधिकारित्वं ते, अपितु मुमुक्षु-

ज्ञेयान्यूनानतिरिक्तविषयान् क्रोडीकृत्य यदप्राक्षीर्मो, तेनापि मेधावित्व-

विद्वत्वोहापोहविचक्षणत्वादि-धर्ममण्डितस्त्वं मुमुक्षूणां सर्वेषां ज्ञातव्य-

मार्ग-दर्शकोसीति महात्मना गुरुणा श्लाघितः भक्तिश्रद्धाभरितमनाः

क्षिप्रमुक्तं गृह्णातीत्यभिप्रायेण "यस्य देवे परा भक्तिः यथा देवे

तथा गुरौ । तस्यैते कथिताह्यर्थाः प्रकाशन्ते महात्मनः " इति श्रुतेः ॥

अद्य इदानीं, यः प्रश्न: को नाम बन्धइत्यादिरूपः कृतः सः वरीयान्

अत्यन्तं वरः । तत्र हेतुमाह शास्त्रविन्मतः, ये तावत् अत्यन्तं शास्त्रविदः

तैरेवैवं प्रष्टुं शक्यत इति भावः । तत्र हेतुमाह सूत्रप्राय इति न्धमोचक-

साक्षात्कारार्थं यावत्प्रष्टव्यं सर्वस्यात्रैव पृष्टत्वात् अल्पाक्षरेण संगृहीतेन

शब्देन । शब्दस्तु अल्पाक्षरः ज्ञेयार्थस्सर्वोपि अत्र निगूढ इति वदन्

सूत्रप्रायत्वं विशदयति निगूढार्थ इति । एतत्प्रकरणग्रन्थस्य उत्तरस्य

सर्वस्यापि एतदुत्तररूपत्वात् प्रतिपादनीयार्थस्सर्वोप्यत्र बुद्धिमता शिष्येण

उपक्षिप्त इति भावः । अत एव मुमुक्षुभिः ज्ञातव्यः, आत्मानात्म-विवेकजन्य-

साक्षात्कारेण हि सहेतुक -बन्धनिवृत्तिरूपमोक्षः उक्त: अज्ञानयोगा-

दित्यादिना गुरुणा । सहसा गुरूक्तितिं विज्ञाय प्रष्टव्यांशस्य सर्वस्याप्यनव-

शेषं अनतिरेकेण पृष्टत्वात् मेधावित्वादिकं शिष्यस्य सम्यगवगम्य

गुरुस्तं नितरां श्लाघयामास ॥ ६९॥
 

 
एवं महात्मना श्लाघितं स्वात्मानंधन्यधन्यं मन्वानं शिष्यं स्वोक्तार्थ-

ग्रहणाद्यर्थं अवधापयति । श्रुणुष्वावहित इति ।
 

 
शृणुष्वावहितो विद्वन् यन्मया समुदीर्यते ।

तदेतच्छ्रवणात्सद्यो भवबन्धाद्विमोक्ष्यसे ॥ ७०॥

 
हे विद्वन् !
 
मेधावित्वाद्युक्तात्म-विद्याधिकारविशिष्ट, मया

यत्समुदीयते संग्रहेण विस्तरेण च सम्यज्ज्ञानाय यदुच्यते, तत् अविहितः