This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 

 
तिरोहितं प्रतिबद्धस्फुटभानं ब्रह्मविदोपदेश-मनन-ध्यानादिभि -र्लभ्यते, आ

समन्तादुपदेशः ओपदेशः ब्रह्मविदः ओपदेशः ब्रह्मविदोपदेशः । यद्वा ब्रह्म-

विदेति व्यस्तं पदं तृतीयान्तं, तेन उपदेशे तत्कर्तृकत्वं लभ्यते । ब्रह्म-

वित्कर्तृकोपदेशः श्रवणं मननं युक्तिभिरनुचिन्तनं ध्यानं निदिध्यासनं, आदि-

पदेन निर्विकल्पकसमाधि-परिग्रहः । तैर्लभ्यते साक्षात्क्रियते । अत्र ब्रह्म-

लाभः साक्षात्कारः स्वानन्यत्वात् अन्यादृश-लाभासंभवात् । कण्ठचामी-

करादिलब्धलाभस्थले सर्वत्राप्येवमेव वक्तव्यत्वात् । न दुर्युक्तिभिर्लभ्यते

" नैषा तर्केण मतिरापनेया" इति श्रुतेः । श्रुत्यनुसारिण्यः युक्तयस्तु

अभ्युपेयन्त एव । "पण्डितो मेधावी गान्धारानेवोपसंपद्येत" इति

श्रुत्यैव सत्तर्कस्याभ्युपेतत्वात् । दर्शयति किल श्रुतिरेव महामत्स्यादि-

दृष्टान्तेन असंगत्वमात्मनः सषुप्तौ प्रपंचपरित्यागेन सदात्मना संपृक्ते

निष्प्रपंचसदात्मत्वं, कार्यकारणानन्यत्वन्यायेन मृत्पिण्डादिदृष्टान्तै: एक-

विज्ञानेन सर्वविज्ञान प्रपंचस्य ब्रह्माव्यतिरेकः, ऊर्णनाभ्यादिदृष्टान्तैः

अभिन्ननिमित्तोपादानत्वं, तस्करदृष्टान्तेन सत्याभिसंधस्य मुक्तिः मिथ्याभि-

संधस्य बन्ध इत्यादियुक्तिजालं । अतः उक्तं दुर्युक्तिभिरिति ॥६७ ॥
 
४४
 
,
 

 
तस्मात्सर्वप्रयत्नेन भवबन्धविमुक्तये ।
 

स्वेनैव यत्नः कर्तव्यो रोगादेरिव पण्डितः ॥ ६८ ॥
 

 
तस्मादिति । यस्मादेवं स्वीयबन्ध :धः अन्येन निवर्तयितुं न शक्यते,

स्वेनापि साधनचतुष्टय-संपत्तिमता गुरुमुपसद्य तन्मुखतः वेदान्तान्

श्रुत्वा तदर्थं मत्वा निदिध्यास्य निर्विकल्पकनिष्ठया ब्रह्मतत्त्वं स्फुटमवगम्य

मोक्तव्यं न केवलं वाबाह्यशब्दादिभिः मुक्तिः सिध्यति तस्मादित्यर्थ: ।

सर्वप्रयत्ने उक्तश्रवणादिरूपप्रयत्नेन भवबन्धविमुक्तये सांसारिकाविद्यादि-
ठठ
देहान्तन्धनिवृत्तये स्वैरेव ये तावत् न्धमनुभवन्ति तैस्स्वैरेव पण्डितैः

बुद्धिमद्भिः, रोगादे: रोगक्षुत्पिपासादेः, विमुक्तये यथा अगदस्वीकाराभ्यव-

हार - -जलपानादिकं स्वयं क्रियते, एवं यत्नः कर्तव्यः । विवेकादिसाधन-

चतुष्टयं स्थिरतमं संपाद्य सद्गुरुरुपसदनीय इति भावः ।

अत्र सर्व-
प्रयत्नेन, भवबन्धविमुक्तये यत्नः कर्तव्य इति द्विवारमुक्तत्वात् एवमर्थो

युक्त इति भाति ॥६८॥
 
,