This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 

 
तिरोहितं प्रतिबद्धस्फुटभानं ब्रह्मविदोपदेश-मनन-ध्यानादिभि लभ्यते, आ
समन्तादुपदेशः ओपदेशः ब्रह्मविदः ओपदेशः ब्रह्मविदोपदेशः । यद्वा ब्रह्म-
विदेति व्यस्तं पदं तृतीयान्तं, तेन उपदेशे तत्कर्तृकत्वं लभ्यते । ब्रह्म-
वित्कर्तृकोपदेशः श्रवणं मननं युक्तिभिरनुचिन्तनं ध्यानं निदिध्यासनं, आदि-
पदेन निर्विकल्पकसमाधि-परिग्रहः । तैर्लभ्यते साक्षात्क्रयते । अत्र ब्रह्म-
लाभः साक्षात्कारः स्वानन्यत्वात् अन्यादृश-लाभासंभवात् । कण्ठचामी-
करादिलब्धलाभस्थले सर्वत्राप्येवमेव वक्तव्यत्वात् । न दुर्युक्तिभिर्लभ्यते
" नैषा तर्केण मतिरापनेया" इति श्रुतेः । श्रुत्यनुसारिण्यः युक्तयस्तु
अभ्युपेयन्त एव । "पण्डितो मेधावी गान्धारानेवोपसंपद्येत" इति
श्रुत्यैव सत्तर्कस्याभ्युपेतत्वात् । दर्शयति किल श्रुतिरेव महामत्स्यादि-
दृष्टान्तेन असंगत्वमात्मनः सषुप्तौ प्रपंचपरित्यागेन सदात्मना संपृक्ते
निष्प्रपंचसदात्मत्वं, कार्यकारणानन्यत्वन्यायेन मृत्पिण्डादिदृष्टान्तै: एक-
विज्ञानेन सर्वविज्ञान प्रपंचस्य ब्रह्माव्यतिरेकः, ऊर्णनाभ्यादिदृष्टान्तैः
अभिन्ननिमित्तोपादानत्वं, तस्करदृष्टान्तेन सत्याभिसंधस्य मुक्तिः मिथ्याभि-
संधस्य बन्ध इत्यादियुक्तिजालं । अतः उक्तं दुर्युक्तिभिरिति ॥६७ ॥
 
४४
 
,
 
तस्मात्सर्वप्रयत्नेन भवबन्धविमुक्तये ।
 
स्वेनैव यत्नः कर्तव्यो रोगादेरिव पण्डितः ॥ ६८ ॥
 
तस्मादिति । यस्मादेवं स्वीयबन्ध : अन्येन निवर्तयितुं न शक्यते,
स्वेनापि साधनचतुष्टय-संपत्तिमता गुरुमुपसद्य तन्मुखतः वेदान्तान्
श्रुत्वा तदर्थं मत्वा निदिध्यास्य निर्विकल्पकनिष्ठया ब्रह्मतत्त्वं स्फुटमवगम्य
मोक्तव्यं न केवलं वाह्यशब्दादिभिः मुक्तिः सिध्यति तस्मादित्यर्थ: ।
सर्वप्रयत्ने उक्तश्रवणादिरूपप्रयत्नेन भवबन्धविमुक्तये सांसारिकाविद्यादि-
देहान्तवन्धनिवृत्तये स्वैरेव ये तावत् वन्धमनुभवन्ति तैस्स्वैरेव पण्डितैः
बुद्धिमद्भिः, रोगादे: रोगक्षुत्पिपासादेः, विमुक्तये यथा अगदस्वीकाराभ्यव-
हार - जलपानादिकं स्वयं क्रियते, एवं यत्नः कर्तव्यः । विवेकादिसाधन-
चतुष्टयं स्थिरतमं संपाद्य सद्गुरुरुपसदनीय इति भावः ।
अत्र सर्व-
प्रयत्नेन, भवबन्धविमुक्तये यत्नः कर्तव्य इति द्विवारमुक्तत्वात् एवमर्थो
युक्त इति भाति ॥६८॥
 
,