2023-02-24 08:01:52 by Vasant
This page has been fully proofread once and needs a second look.
शेषणं परमकारणमित्युक्तं व्यतिरेकमुखेन अकृत्वेति, दृश्यप्रविलापने तत्त्व -
ज्ञानं नान्यथेति । एवं तत्त्वज्ञाने मुक्तिः नापरथेति च, मुक्तिहेतुत्वं
ज्ञानस्य व्यतिरेकमुखेन कथितम् । तत्रानुरूपं दृष्टान्तमाह। अकृत्वेति ।
अकृत्वा शत्रुसंहारं अगत्वाखिलभूश्रियं ।
राजाहमितिशब्दान्नो राजा भवितुमर्हति ॥६६॥
४३
स्वकीयराज्यभोगप्रतिबन्धकानां शत्रूणां विलयमकृत्वा अखिल-
भूश्रियं समस्तपृथ्वीसंपदं, अगत्वा अप्राप्य, केवलमहं राजेतिशब्दात् नो
राजा भवितुमर्हति राजा भवितुं नो अर्हतीत्यन्वयः । राजत्वे सकलशत्रु-
विलयपुरस्सरं समस्तभूश्रीप्राप्तिः यथा कारणमेवं सकलदृश्य-प्रविलापन-
पुरस्सरं आत्मतत्त्वज्ञानं मुक्तावपीति भावः ॥ ६६॥
केवल
ज्ञातव्यमित्यमुमर्
आप्तोक्ति खननं तथोपरिशिलापाकर्षणं स्वीकृ
निक्षेपः समपेक्षते न हि बहिः शब्
तद्वद्ब्रह्म-विदोपदेश-मननध्यानादिभिर्लभ्यते,
मायाकार्
लोके तावत् भूमेरन्तस्स्थापितः निक्षेपः हिरण्यादिनिधि:, प्राप्त-
व्यश्चेत् तं दृष्टवतां वा, अंजनविशेषादिना तं विज्ञाय सत्यं कथयतां वा
आप्तानां उक्ति श्रुत्वा भुवं खनित्वा, तत्र निधेरुपरि वर्तमानाच्छादक-
शिलायाः अपकर्षणं अपसारणं कृत्वा प्राप्तव्यः । न तु निक्षेपः निक्षेप इति
शब्दैः
आधेये आप्तोक्
स्वीकृ
घारणे नैव निर्गच्छतीति हि लोके प्रसिद्धं । तद्वत् शिलया भूम्या च आ
माणनिधिरिव, स्वं स्वकीयं अमलं स्वतश्शुद्धं तत्त्वं यथात्म्यं ब्रह्मेति यावत्,
मायाकार्यतिरोहितं मायया अज्ञानेन तत्कार्येश्च अहंकारादिदेहान्तैः को