This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
एतेन आत्मतत्त्वज्ञाने समस्तदृश्य प्रविलापनपुरस्सरं ब्रह्ममात्राव-
शेषणं परमकारणमित्युक्तं व्यतिरेकमुखेन अकृत्वेति, दृश्यप्रविलापने तत्त्व -
ज्ञानं नान्यथेति । एवं तत्त्वज्ञाने मुक्तिः नापरथेति च, मुक्तिहेतुत्वं
ज्ञानस्य व्यतिरेकमुखेन कथितम् । तत्रानुरूपं दृष्टान्तमाह। अकृत्वेति ।
 
अकृत्वा शत्रुसंहारं अगत्वाखिलभूश्रियं ।
 
राजाहमितिशब्दान्नो राजा भवितुमर्हति ॥६६॥
 
४३
 
स्वकीयराज्यभोगप्रतिबन्धकानां शत्रूणां विलयमकृत्वा अखिल-
भूश्रियं समस्तपृथ्वीसंपदं, अगत्वा अप्राप्य, केवलमहं राजेतिशब्दात् नो
राजा भवितुमर्हति राजा भवितुं नो अर्हतीत्यन्वयः । राजत्वे सकलशत्रु-
विलयपुरस्सरं समस्तभूश्रीप्राप्तिः यथा कारणमेवं सकलदृश्य-प्रविलापन-
पुरस्सरं आत्मतत्त्वज्ञानं मुक्तावपीति भावः ॥ ६६॥
 
केवलवाह्यशब्दः न मुक्तिः अतः प्रयत्नात् तत्त्वज्ञात् आत्मनः तत्त्वं
ज्ञातव्यमित्यमुमर्थ सदृष्टान्तं विस्तरेण कथयति । आप्तोक्तिमिति ।
आप्तोक्ति खननं तथोपरिशिलापाकर्षणं स्वीकृति,
 
निक्षेपः समपेक्षते न हि बहिः शब्दस्तु निर्गच्छति ।
तद्वद्ब्रह्म-विदोपदेश-मननध्यानादिभिर्लभ्यते,
मायाकार्य-तिरोहितं स्वममलं तत्त्वं न दुर्युक्तिभिः ॥६७॥
 
लोके तावत् भूमेरन्तस्स्थापितः निक्षेपः हिरण्यादिनिधि:, प्राप्त-
व्यश्चेत् तं दृष्टवतां वा, अंजनविशेषादिना तं विज्ञाय सत्यं कथयतां वा
आप्तानां उक्ति श्रुत्वा भुवं खनित्वा, तत्र निधेरुपरि वर्तमानाच्छादक-
शिलायाः अपकर्षणं अपसारणं कृत्वा प्राप्तव्यः । न तु निक्षेपः निक्षेप इति
शब्दैःवहिः निर्गच्छति। तदिदमुक्तं यन्निक्षेप: हिरण्यादिनिधिः स्वफले
आधेये आप्तोक्ति खननं भुवः तथा उपरिशिलापाकर्षणं तदनंतरं स्वस्य
स्वीकृति स्वीकारं च समपेक्षते, वहिश्शब्दस्तु न निर्गच्छति, तु-शब्दोव-
घारणे नैव निर्गच्छतीति हि लोके प्रसिद्धं । तद्वत् शिलया भूम्या च आद्रिय-
माणनिधिरिव, स्वं स्वकीयं अमलं स्वतश्शुद्धं तत्त्वं यथात्म्यं ब्रह्मेति यावत्,
मायाकार्यतिरोहितं मायया अज्ञानेन तत्कार्येश्च अहंकारादिदेहान्तैः कोशः,