This page has been fully proofread once and needs a second look.

४२
 
श्रीविवेकचूडामणिः सव्याख्यः
 
ज्ञानमेवाज्ञाननिवर्तकं नान्यदित्याह । अज्ञानेति ।

 
अज्ञानसर्पदष्टस्य ब्रह्मज्ञानौषधं विना ।

किमु वेदैश्च शास्त्रैश्च किमु मन्त्रैः किमौषधैः ॥६३॥
 

 
अज्ञानमेव सर्पः अत्यन्तानर्थकरत्वात्, तेन दष्टस्य आवृतिविक्षेपाभ्यां

प्रापितमोहस्य, ब्रह्मज्ञानमेवौषधं ब्रह्मज्ञानौषधं तेन विना, वेद:दैः ऋगादि-

वेदैः, शास्त्रैः व्याकरणादिशास्त्रैश्च किमु प्रयोजनं । मन्त्रैः सप्तकोटिभिः

किमु । औषधंधै: संजीविन्यादिमूलिंकाभिर्वा किमु फलं तेषां मध्ये केषामपि

अज्ञानसर्पदंशन-प्रयोज्यमोहनिवर्तकत्वाभावादिति भावः ॥ ६३॥

 
शब्दमात्रस्य मोक्षाहेतुत्वं दृष्टान्तेनाह । न गच्छतीति ।

 
न गच्छति बिविना पानं व्याधिरौषध-शब्दतः ।

विनापरोक्षानुभवं ब्रह्मशब्दैर्न मुच्यते ॥६४॥
 

 
व्याधिः रोग: पानं विना औषधपानं विना, तद्बोधकात् औषधं

औषधमिति शब्दोच्चारणात् न गच्छति न निवर्तते, तद्वत् अपरोक्षानुभवं

आत्मसाक्षात्कारं विना केवलमुपनिषद्घटकैः ब्रह्मशब्दैः न मुच्यते,

निवृत्तन्धो न भवतीत्यर्थः ॥६४॥
 

 

 
तमेवार्थं तत्वज्ञान - परमकारण-कथनद्वारा भंग्यन्तरेणाह । अकृत्वे-

त्यादिना ।
 

 
अकृत्वा दृश्यविलयं अज्ञात्वा तत्त्वमात्मनः ।

बाह्यशब्दैः कुतो मुक्तिरुक्तिमात्रफलैर्नृणाम् ॥६५॥

 
दृश्यविलयं दृश्यस्य शब्दाजन्यवृत्तिविषयस्य चिद्विषयस्य वा, तेन शश-

शृंगादेः ब्रह्मणश्च वारणं अज्ञानान्तस्य जडस्य सर्वस्य ब्रह्मव्यतिरिक्तस्य,

विलयं ब्रह्मणि प्रविलापनं अकृत्वा, आत्मनः तत्त्वमज्ञात्वा सजातीय-

विजातीय-स्वगतभेदरहितसर्वाधिष्ठान-सत्य-स्वयंप्रकाशानन्दरूपतामज्ञात्वा

उक्तिमात्रफलैः उच्चारणमात्र प्रयोजनैः वाह्यशब्द बाह्यशब्दै: आन्तरानुभवं विना

उच्चार्यमाणैः अहंब्रह्मास्मीत्यादिशब्दैः नृणां मुक्तिः कुतः, नैव संभव-

तीत्यर्थः । किकिंशब्द: निषेधार्थकः ॥६५॥