This page has not been fully proofread.

४२
 
श्रीविवेकचूडामणिः सव्याख्यः
 
ज्ञानमेवाज्ञाननिवर्तकं नान्यदित्याह । अज्ञानेति ।
अज्ञानसर्पदष्टस्य ब्रह्मज्ञानौषधं विना ।
किमु वेदैश्च शास्त्रैश्च किमु मन्त्रैः किमौषधैः ॥६३॥
 
अज्ञानमेव सर्पः अत्यन्तानर्थकरत्वात्, तेन दष्टस्य आवृतिविक्षेपाभ्यां
प्रापितमोहस्य, ब्रह्मज्ञानमेवौषधं ब्रह्मज्ञानौषधं तेन विना, वेद: ऋगादि-
वेदैः, शास्त्रैः व्याकरणादिशास्त्रैश्च किमु प्रयोजनं । मन्त्रैः सप्तकोटिभिः
किमु । औषधं: संजीविन्यादिमूलिंकाभिर्वा किम फलं तेषां मध्ये केषामपि
अज्ञानसर्पदंशन-प्रयोज्यमोहनिवर्तकत्वाभावादिति भावः ॥ ६३॥
शब्दमात्रस्य मोक्षाहेतुत्वं दृष्टान्तेनाह । न गच्छतीति ।
न गच्छति बिना पानं व्याधिरौषध-शब्दतः ।
विनापरोक्षानुभवं ब्रह्मशब्दैर्न मुच्यते ॥६४॥
 
व्याधिः रोग: पानं विना औषधपानं विना, तद्बोधकात् औषधं
औषधमिति शब्दोच्चारणात् न गच्छति न निवर्तते, तद्वत् अपरोक्षानुभवं
आत्मसाक्षात्कारं विना केवलमुपनिषद्घटकैः ब्रह्मशब्दैः न मुच्यते,
निवृत्तवन्धो न भवतीत्यर्थः ॥६४॥
 

 
तमेवार्थं तत्वज्ञान - परमकारण-कथनद्वारा भंग्यन्तरेणाह । अकृत्वे-
त्यादिना ।
 
अकृत्वा दृश्यविलयं अज्ञात्वा तत्त्वमात्मनः ।
बाह्यशब्दैः कुतो मुक्तिरुक्तिमात्रफलैर्नृणाम् ॥६५॥
दृश्यविलयं दृश्यस्य शब्दाजन्यवृत्तिविषयस्य चिद्विषयस्य वा, तेन शश-
शृंगादेः ब्रह्मणश्च वारणं अज्ञानान्तस्य जडस्य सर्वस्य ब्रह्मव्यतिरिक्तस्य,
विलयं ब्रह्मणि प्रविलापनं अकृत्वा, आत्मनः तत्त्वमज्ञात्वा सजातीय-
विजातीय-स्वगतभेदरहितसर्वाधिष्ठान-सत्य-स्वयंप्रकाशानन्दरूपतामज्ञात्वा
उक्तिमात्रफलैः उच्चारणमात्र प्रयोजनैः वाह्यशब्द : आन्तरानुभवं विना
उच्चार्यमाणैः अहंब्रह्मास्मीत्यादिशब्दैः नृणां मुक्तिः कुतः, नैव संभव-
तीत्यर्थः । किशब्द: निषेधार्थकः ॥६५॥