This page has been fully proofread once and needs a second look.

एतादृशं विदुषां वैदुष्यमपि, तद्वत् वीणावादनादिवत् भुक्तये प्रतिष्ठा-
संपादनादिद्वारा भवति । मुक्तये तु न भवति । तत्र पूर्वोक्तसाक्षात्कार एव
कारणम् इति भावः ॥६०॥
 
ननु तात्कालिकसुखजनकं वैणिक कौशलं क्व, श्रवणानन्तरमपि
सम्यगंतः प्रविश्य आनन्दहेतुभूतं विदुषां वैदुष्यं क्व, अतस्तस्य तद्वदिति
वैणिककौशलसाम्यं नं वक्तव्यमिति चेत्, अस्त्वेवं तत्रान्तरं, अथापि
आत्मतत्वसाक्षात्काराभावे शास्त्राध्ययनं तज्जन्यकौशलं वा यथोक्तफल-
वन्नभवतीत्याह अविज्ञात इति ।
 
अविज्ञाते परे तत्वे शास्त्राधीतिस्तु निष्फला ।
विज्ञातेपि परे तत्वे शास्त्राधीतिस्तु निष्फला ॥ ६१॥
 
परे कालत्रयाबाध्यत्वेन स्वयंप्रकाशानन्दरूपत्वेन च मिथ्याभूत-
जडदुःखादि-रूप देहादिमायान्त-सकल-कार्यकारणापेक्षया उत्कृष्टे, तस्य
सर्वस्याधिष्ठानभूते तत्वे निर्गुणे ब्रह्मणि, अविज्ञाते असाक्षात्कृते सति,
शास्त्राधीतिस्तु अर्थविचारपर्यन्तवेदान्ताध्ययनमपि निष्फला । यदर्थं
विचार: शास्त्रविहितः तस्यालाभे निष्फलत्वं तत्र तत्फललाभपर्यन्तं
यथोक्तफलशून्यत्वरूपं सिद्धमेवेति भावः ।
जन्मांतरकृतसाधनवशात्गर्भस्थेनापि वामदेवेनेव परे तत्त्वे विज्ञाते साक्षात्कृतेपि अनन्तरं फलस्य
निष्पन्नत्वात् शास्त्राध्ययनादिकं न कार्यमिति भावः ॥६१ ॥
 
यथा महारण्यं प्रविष्टः पुरुषः दिशमज्ञात्वा भ्राम्यति मुधा तथा
केवलशब्दजालात्मक-शास्त्रस्यापि विक्षेपहेतुत्वात् तन्निष्ठत्वमपि परित्यज्य
परमात्मसाक्षात्कारवतो देशिकात् आत्मयाथात्म्यं साक्षात्कर्तव्यमित्याह ।
शब्दजालमिति ।
 
शब्दजालं महारण्यं चित्तभ्रमणकारणं ।
अतः प्रयत्नात् ज्ञातव्यं तत्त्वज्ञात्तत्त्वमात्मनः ॥ ६२ ॥
 
उपनिषद्रूप-शास्त्रादेव आचार्योपदेशा- त्तत्त्वस्य ज्ञातव्यत्वेपि शास्त्र-
कोलाहलो नाश्रयणीयः तद्वासनाया अपि ज्ञानप्रतिबन्धकत्वात् ।
"लोकवासनया जन्तोः शास्त्रवासनयापि च । देहवासनया ज्ञानं यथावन्नैव
जायते " इति वक्ष्यमाणत्वादिति भावः ॥६२॥