This page has been fully proofread once and needs a second look.

४०
 
श्रीविवेकचूडामणिः सव्याख्यः
 
मोक्षस्य, आत्मस्वरूपत्वादनाप्यत्वं, नित्यशुद्ध-ब्रह्मस्वरूपत्वात् न संस्कार्यत्वं,

निर्विकारब्रह्मस्वरूपत्वात् न विकार्यत्वम् । एतत्तु समन्वय सूत्रभाष्ये

विस्तरेणोपपादितं भगवत्पादैः । अतः कर्मफलत्वव्यापकोत्पाद्यत्वाद्यन्यतम-

धर्माभावात् कर्मणा नो सिध्यतीत्यर्थः । विद्यां चाविद्यां च, विद्यया

तदारोहंति, इत्यादौ विद्याशब्दस्य उपासनापरत्वं सिध्यति । अतः

विद्यापदस्य आत्मविद्याव्यतिरिक्तापरविद्याऽर्थः । तयाब्रह्मस्वरूपावस्थान-

लक्षणमोक्षः न साक्षात्सिध्यतीत्यर्थः ॥ ५८॥
 

 
ब्रह्मात्मैकत्वबोधेनैव मोक्षः सिध्यति नान्यथेत्यमुमर्थं दृष्टान्तेन

विशदयति । वीणाया इति ।
 

 
वीणाया रूपसौंदर्यं तन्त्रीवादनसौष्ठवम् ।

प्रजारंजनमात्रं तन्न साम्राज्याय कल्पते ॥ ५९॥
 

 
रंजनाद्राजा " राजा प्रकृतिरंजनात् " इत्युक्तानुसारेण कश्चिद्वैणिकः

रूपेण जनमनोहरां कांचिद्वीणामादाय तत्तंत्रीः सूष्ठु वादयति चेत् यद्यपि

रज्यन्ते प्रजाः सुंदरवीणादर्शनेन सौष्टवोपेत-तत्तंत्रीवादनेन च । अथापि

तद्रंजनं न वैणिकस्य साम्राज्याय सम्राड्भावाय कल्पते । तद्वदात्मैक्यबोधेन

विना योगशास्त्रादिजन्यज्ञानं वा कर्म वा उपासनं वा न साक्षात्कैवल्याय

कल्पत इति भावः । वीणाया रूपसौंदर्य सुंदररूपवत्वमिति यावत् । तन्त्र्याः

वादने सौष्ठवं वैणिकनिष्ठ -प्रजारंजनमात्रं तत् न साम्राज्याय कल्पत

इत्यर्थः ॥५९॥
 

 
केवलं शब्दश्रवणमात्रेण मनोरंजकविषये कथयित्वा अर्थतोपि ये

मनो रंजयन्ति तेषामपि पूर्वोक्तज्ञानाभावे नैव मुक्तिरित्याह । वाग्वैखरीति ।
 
वां

 
वा
ग्वैखरी शब्दझरी शास्त्रव्याख्यानकौशलम् ।

वैदुष्यं विदुषांतद्वद्भुक्तये न तु मुक्तये ॥६०॥

 
वाग्वैखरी सरलपदबन्धविशिष्टा वाक्, शब्दझरी निरर्गलनिर्गलंती

वाक् वाक्प्रयोगचातुर्यं शब्दप्रवाहः, शास्त्रव्याख्यानकौशलं शास्त्रस्य

व्याख्यानं "पदच्छेदः पदार्थोक्तिः विग्रहो वाक्ययोजना, आक्षेपस्य समाधानं

व्याख्यानं पंचलक्षणम्" इत्युक्तरीत्या शास्त्रार्थकथने कौशलं, प्रावीण्यं ।
 
"6