2023-02-20 14:42:37 by ambuda-bot
This page has not been fully proofread.
४०
श्रीविवेकचूडामणिः सव्याख्यः
मोक्षस्य, आत्मस्वरूपत्वादनाप्यत्वं, नित्यशुद्ध-ब्रह्मस्वरूपत्वात् न संस्कार्यत्वं,
निर्विकारब्रह्मस्वरूपत्वात् न विकार्यत्वम् । एतत्तु समन्वय सूत्रभाष्ये
विस्तरेणोपपादितं भगवत्पादैः । अतः कर्मफलत्वव्यापकोत्पाद्यत्वाद्यन्यतम-
धर्माभावात् कर्मणा नो सिध्यतीत्यर्थः । विद्यां चाविद्यां च, विद्यया
तदारोहंति, इत्यादौ विद्याशब्दस्य उपासनापरत्वं सिध्यति । अतः
विद्यापदस्य आत्मविद्याव्यतिरिक्तापरविद्याऽर्थः । तयाब्रह्मस्वरूपावस्थान-
लक्षणमोक्षः न साक्षात्सिध्यतीत्यर्थः ॥ ५८॥
ब्रह्मात्मैकत्वबोधेनैव मोक्षः सिध्यति नान्यथेत्यमुमर्थं दृष्टान्तेन
विशदयति । वीणाया इति ।
वीणाया रूपसौंदर्यं तन्त्रीवादनसौष्ठवम् ।
प्रजारंजनमात्रं तन्न साम्राज्याय कल्पते ॥ ५९॥
रंजनाद्राजा " राजा प्रकृतिरंजनात् " इत्युक्तानुसारेण कश्चिद्वैणिकः
रूपेण जनमनोहरां कांचिद्वीणामादाय तत्तंत्रीः सूष्ठु वादयति चेत् यद्यपि
रज्यन्ते प्रजाः सुंदरवीणादर्शनेन सौष्टवोपेत-तत्तंत्रीवादनेन च । अथापि
तद्रंजनं न वैणिकस्य साम्राज्याय सम्राभावाय कल्पते । तद्वदात्मैक्यबोधेन
विना योगशास्त्रादिजन्यज्ञानं वा कर्म वा उपासनं वा न साक्षात्कैवल्याय
कल्पत इति भावः । वीणाया रूपसौंदर्य सुंदररूपवत्वमिति यावत् । तन्त्र्याः
वादने सौष्ठवं वैणिकनिष्ठ प्रजारंजनमात्रं तत् न साम्राज्याय कल्पत
इत्यर्थः ॥५९॥
केवलं शब्दश्रवणमात्रेण मनोरंजकविषये कथयित्वा अर्थतोपि ये
मनो रंजयन्ति तेषामपि पूर्वोक्तज्ञानाभावे नैव मुक्तिरित्याह । वाग्वैखरीति ।
वांग्वैखरी शब्दझरी शास्त्रव्याख्यानकौशलम् ।
वैदुष्यं विदुषांतद्वद्भुक्तये न तु मुक्तये ॥६०॥
वाग्वैखरी सरलपदबन्धविशिष्टा वाक्, शब्दझरी निरर्गलनिर्गलंती
वाक् वाक्प्रयोगचातुर्यं शब्दप्रवाहः, शास्त्रव्याख्यानकौशलं शास्त्रस्य
व्याख्यानं "पदच्छेदः पदार्थोक्तिः विग्रहो वाक्ययोजना, आक्षेपस्य समाधानं
व्याख्यानं पंचलक्षणम्" इत्युक्तरीत्या शास्त्रार्थकथने कौशलं, प्रावीण्यं ।
"6